________________
द्वितीयविगिका
११५
vvvNV.
शुक्ल मद खलु नियमात्सवत्सरादूर्ध्व'मितिवचनान्नासङ्गतो भवति । यद्यपि च त्रिविष्टपनिवासिनामपि केषाञ्चिदभव्यत्वेन नौचितिमञ्चति शुक्ललेश्यावत्त्व तथापि तत्र तथाविधानां द्रव्याणां ग्रहणसम्भवात्तेषा द्रव्यलेश्यापेक्षयैवविधत्व वर्ण्यमान नावर्णनीयम्। अत एव च द्रव्यलेश्यापेक्षयाऽविच्छिन्नसन्ततित्व निर्जरादीना वर्ण्यते । ततश्च नारकाणा निन्द्यतमलेश्यासद्भावेऽप न सम्यक्त्वप्राप्तेरुक्तिरसम्भविनी। यत उच्यते-“सुरनारयाण ताओ दवल्लेसा अवटठिया भणिया। भावपरावत्तीए पुण एसि हुति छल्लेसा ।।१।" इति । ननु च द्रव्योपष्टम्भजनित आत्मपरिणामो लेश्येत्युच्यते, तथा च कथ द्रव्यभावलेश्याव्यपदेशो? यादृशानि द्रव्याणि सचिवीभावमापद्यन्ते तादृशी सोच्येत । न हि जपाकुसुमोपाधिजनित स्फटिके रोग उपलभ्यते, यथा चापदिश्यते स्फटिकस्य रक्तता, तथा नीलिमनीलोपाधिकेन तत्र श्यामताऽपदिश्येत, एवमात्मनो द्रव्यसाहचर्येण लेश्योत्पत्ते कथमवस्थितानवस्थितत्व द्रव्यभावापेक्षयोपपाद्यमानमुपपद्यतेति चेत्, सत्य, यथा हि सुदृढवपुप्कस्य परिश्रमकारणमप्यध्वनीनत्व न भवति खेदाय, भावितविषवेगस्य वा नापकरोति विषवेग , तथा यथाऽभ्यवहृतकर्कटिकस्य न भासते जलास्वाद, तथाऽत्रापि नारकसुरयोरवस्थितद्रव्यलेश्याकत्वेऽपि नाऽयुक्ता भावलेश्यापरावृत्ति.। न चैव द्रव्याणा तथाविधाना तत्तल्लेश्योत्पादकत्व न, तस्य तत्कारणत्वेन पूर्वमेव निरूपितत्वात्, अन्यथा निर्हेतुकत्वापत्ते । लेश्याश्चैता षट् कृष्ण-नील-कापोततैजस-पद्म-शुक्लाभिधाना.। द्रव्यापेक्षयवाऽस्य व्यपदेशाद्वर्णप्राधान्येन व्यपदेश एतासां वर्णाना च स्वनुबोध्यत्वाच्च न गन्धादिभिर्व्यपदेशः। लक्षणानि च जम्बूफलखादक-ग्रामघातकपुरुषषटकदृष्टान्तेन प्रवचनप्रसिद्धेन यद्यप्यभ्यूह्यानि परमोहावता, तथापि