________________
द्वितीयविशिका
११४
~
भवेत् ततोऽनुभावविशेषवन्धोऽपि, न तदा विरोधमुत्पश्याम । योगाश्चात्मपरिणामरूपा एव, भावयोगस्य तथात्वात् । - परं सयोगिनि भावमनसोऽभावेऽप्यात्मपरिणाम गुक्लतमोऽस्त्येव लेश्यासद्भावश्चेति लेश्याया आत्मपरिणामत्व न-युक्त्यतिरिक्तम् । द्रव्ययोगास्तु त्रयोऽपि सन्त्येव यद्योगाल्लेग्यासम्भव , योगत्रयसम्भवस्तु निवृत्तसमुद्घातानामपि सम्भवत्येव "समुद्घातनिवृत्तोऽथ मनोवाक्काययोगवान् भगवान्" इतिवचनात् । ननु चात्मपरिणामत्वे लेश्याना कथ तासा वर्णगन्धादिमत्त्व वर्ण्यमानमुत्तराध्ययनादिषु-"नामाइ वण्णरसगधफासपरिणामलक्खण ठाण। ठिइ गति चाउ लेसाणं तु सुणेह मे । २।।" इत्यादिना भगवद्भिः सङ्गच्छते? । न ह्यात्मनामस्ति रूपगन्धादिमत्त्व, कथ तहि लेश्याना स्यात्तथात्वमिति चेत् अत एवोक्त-'कृष्णादिद्रव्यसाचिव्या'दिति । द्रव्याणि तु तानि द्रव्ययोगरूपाणि भवेयुस्तदा सर्व घटाकोटिमाटीकत एव । एवमेव च द्रव्यभावलेश्योपपत्तिरप्यवगन्तव्या । यद्यपि गत्यन्तराले विग्रहगतौ चौदारिकादियोगाभावेऽपि कार्मणकाययोगोऽस्त्येव, तेन तदालम्बनो लेश्यासद्धावस्तदा वर्ण्यमानो नासङ्गतता दधाति तथापि तस्या. स्थूलयोगसद्भावेन परावर्त्तः प्रतिपाद्य । यत आहु-"अतोमुत्तम्मि गए अतोमुत्तम्मि सेसए चेव । लेसाहि परिणयाहिं जीवा गच्छति परलोय ॥१॥" इति । अत्र हि स्पष्ट एव परभवगमनसमये तात्कालिकलेश्यापरावर्तो नाभ्युपगतस्तत्र लेग्यापरावृत्तिकारणीभूतयथार्थद्रव्योपग्रहाभावात् । लेश्याना चात्मपरिणामत्वेनाऽसङ्ख्यत्वेऽपि परिस्थरविभागव्यपेक्षया सामान्यविशेषभावेन षड्ढात्व वर्ण्यते । तथा चैकजातीयशुक्ललेश्यासद्भावोऽपि लान्तकादाऽऽ सर्वार्थसिद्धे सुराणा सयोगिना केवलिनां पर्यायवृद्धतमाना मुनीश्वराणा 'सर्व