________________
द्वितीयविशिका
११३
'भाग कसायओ कुणइ" इतिवचनात् तस्या प्रकृतिप्रदेशबन्धमात्रहेतुत्वापातात् न स्यात्तद्वता तया सम्पाद्यमानमनुभागादि । न च वाच्यमुक्तमेवात्मपरिणामो लेश्येति । अयोगिन्यपि तत्सद्भावापत्तेः, तत्र हि निरुध्यन्ते योगा , न त्वात्मपरिणाम , तथा सति कर्मवेदननिर्जरयोरभावप्रसङ्गादिति [चेत्, सत्य, पर न केवलमात्मपरिणामः तथात्वेनापदिश्यते, किन्तु कृष्णादिद्रव्येणोत्पादित एव ।
कृष्णादिद्रव्याणि तु योगरूपाणि यदि स्युस्तदा न कोऽपि विरोध , • योगसम्भवपर्यन्तमेव लेश्यासम्भवस्याम्नातत्वात्, योगाश्च न सन्त्येवाऽन्त्ये गुणस्थाने । न च लेश्यापि तत्रेत्यन्वयव्यतिरेकावपि सम्भवत एव लेश्याया योगै । यच्च-"जोगा" इत्यादि । तदपि मनोरम तावदेव, यावद्विविच्यते "जोगा पयडिपएस ठिइअणुभाग कसायओ कुणइ" इति नियमभावादेव न कषायरहितानामकेवलिनामपि चैकादशद्वादशगुणवतिना साम्परायिको बन्ध., कषायस्यैव स्थितिविधातृत्वात् लेश्याया अनुभावविधातृत्व तु न क्वचिदपि पापठचते शास्त्रै , तस्या कषायसवलिताया वा भवेत्तथात्व तदापि न विरोध । तत्त्वतस्तु योगात्प्रकृतिबन्ध प्रदेशबन्धश्चानुभाव कषायात् स्थि तर्लेश्याविशेषात् अकषायलेश्ययाऽनुभवोऽपि । यदाहु -"तत्र प्रदेशवन्धो योगात्तदनुभवन कषायवशात् । स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥१॥" [प्रशम०] इति । अत्र कषायशब्दोत्तर 'वशादिति लेग्योत्तर 'विशेपेणेति च युग्म 'चिन्तनीय चिद्वता, तथैव पाकविशेष इत्यपि । अत एव पुरत. 'श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधाय' इत्युक्तम । एवमेव च सयोगिनामीर्यापथकर्मवन्धवर्णितस्तीवोऽनुभावोऽपि सम्भवेत् । अन्यथा कषायक्षयात् कथङ्कारमनुभावबन्धसम्भव इति । योगपरिणामत्वेऽपि च लेश्याया योगात्कथञ्चिद्विचित्रत्वादेव