________________
द्वितीयविशिका
-
११२
-~~~-mwwwmoranvanrowonomwwwanmadiwas
साम्परायिकावार्थ तदा यदाऽसंयततया विषयविषमूछितो भवति जीव , सति चाविरतत्वे नैव बध्यते तत्तथा कषायक्षयभावाल्लघुना कालेन तथाविधस्येति । पृथगुपात्त, तथैव समग्रादृष्टस्या समुच्चितफलज्ञापनायासिद्धत्व गत्यादिना पृथग्गृहीतेऽप्युपात्त वैराग्यार्थ तथोपन्यासश्च पार्थक्येन नैव दुप्टोऽन्यथा द्वे एवाख्यास्यन् ग्रन्थकारास्तत्त्वे जीवाजीलक्षणे न पुनराश्रवादीनि। परं यथा हेयोपादेयनानेन मोक्षानुसतेरानुकल्याय प्रतिपादितानि पृथक्तया न दोषभाञ्जि, तथाऽत्रापि कारणरूपतयाऽसयतत्व फलरूपतया चासिद्धत्व: निराचक्षाणा ग्रन्थकारा। उपकारमेव चक्रु' मोक्षानुसारिप्रवृत्तिमता, स्याद्विरुद्धाभिभापिता यदा नंते। औदयिके अभविप्यता। चेदेते स्तस्तथाभूते तहि तदाख्यान पार्थक्येन विस्मृतप्रत्येकादृष्टफलाना मुग्धजीवाना समुदितफलदगनेन सम्यक् प्रवृत्तय एव भविता, विदग्धानामपि ससारभावाख्यानेन वैराग्योत्पादनमपि एव सति कृत स्यादिति । एवमेव लेश्या अपि पृथगुपात्ता ज्ञेया , सत्यप्यविरतत्वे लेश्यानुसारेणव, कर्मणो बन्धीभावात्, "स्थितिपाकविशेपस्तस्य भवति लेश्याविशेषेणे'तिवचनात् । अथाऽऽख्यायन्ते क्रमप्राप्ता लेश्या - तत्र श्लिष्यत्यात्मा आभि कर्मणा (सह) इति लेश्या-आत्मपरिणामस्तथाविधविविधद्रव्यजनित । यदाहु:-"कृष्णादिद्रव्यसाचिव्यात्परिणामो य: आत्मन । स्फटिकस्येव तत्राय लेश्याशब्द प्रयुज्यते ॥१॥” इति । ननु : कतमस्य कर्मण उदयनेमा ?, । न तावद् घातिनामुदयेन, सयोगिन्यपि तत्सद्भावात् । नापि चाघातिनामपि, चरमगुणेऽभावात् । न चास्त्यन्यत्कर्म यदुदयात्सम्पद्यन्त इमा । अनेनैतदपि निरस्तमेव-यदष्टाना कर्मणामुदये सम्पद्यन्ते लेश्या इति । न च वाच्यं योगपरिणामो लेश्येतिः। तथाः सति “जोगा पयडिपएस ठिइअणु