________________
द्वितीर्यावशिका
१०२
यदा जन्तुर्जह्यान्न जडममता शुद्धमनसा, तदाऽऽत्मानन्द किं विलसति हृदीष्ट समभव ॥६०॥ न साम्यघाति व्रतमादिदेश, जिन शिवाध्वानमिद यदिद्धम् । सामायिक साम्यमय चरित्र, न्यगादि सा.सुकृताय नानतम् ।।६१।। व्रत का हीनाना भवति समतोशन्तु विबुधा, न यन्मग्ना सौख्ये विषयकरणे स्वात्मरतय । हषीकै पात्यन्ते भवजलनिधौ के न शमिनो, गतिस्तेषा काये व्रतमपि न दध्यु शममुखा ॥६२।। शमारामालवाल ये व्रत गृह णीयुरादरात् । यान्ति साम्यसुधापूर्णास्तेऽव्यया परमा गतिम् ।।६३।। सुखे वैपयिके त्यक्ते कपाया इनति स्वयम् । प्राप्य काष्ठ दहत्यग्नि शाम्यति स्त्रयमन्यथा ॥६४॥ विषयाक्रान्तचेतस्को वम्भ्रमीति भवोदधौ । तेभ्यस्तद्विरतिं कुर्युरनन्तानन्दकाइक्षिण. ॥६५॥ कपायेपु विहीनेपु चित्तमात्मनि गच्छति । गावो निवृत्तगोचारा यथा स्वालयमाप्नुयुः ॥६६॥ दान्ते चित्ते गुणा. सर्वे, सरितो जलधि यथा । आयान्त्यप्राप्यकारीद मन्ये तेन मत बुधैः ॥६७।। शान्ते चित्ते ह्यनित्याद्या, भावनाः स्थैर्यमियति । विनिवृत्तेऽनिले वाधी स्तभ्नाति जीवन न किम् ॥६८॥ भावना भवनाशाय साम्यद्रोर्मूलमनिमम् । । पदार्थोद्योतने दीप्रा दीपिका निर्वृतिप्रदा ॥६९।। साम्ये ध्यान ततो ज्ञानमात्मन. सर्वकर्मनुत् । कर्मण्यखिले हते मोक्ष (मोक्षोऽखिले हतेऽदृष्टे) तद्वतं
शिवसौख्यदम् ॥७॥