________________
द्वितीयवि शिका
यदि ब्रूयु -"नानतिचार भवतीद कालदोषतस्तस्मात् । न क्रियते तत्सत्य द्वितीये न चाविद कथनम् ॥१शा नानतिचार प्रथम शिक्षाव्रतमीक्षित मुनिवरेन्द्रैः। यत्प्रोक्त सातिचाराद्भवति त्वतिचाररहितमपि ॥२॥ अत एवाविधिसेवा भक्तिमतो भावधर्मतानुगता। आख्याता मुनिवर्य. स्वर्गशिवप्राप्तिकृत्सम्यग् ॥३॥ भक्त्या ह्यतिचारभवो दोषो नश्यति तन्न दुष्टाऽसौ । अत एवाविधिसेवाऽभक्तिमतो भवफला प्रोक्ता ॥४॥ कार्य विरतिमता तत् भक्त्याऽऽदाय व्रत सदा रक्ष्यम् । जिनवचनानुष्ठानाद्धृवा निवृत्ति सदागयत ॥५॥ हेया अप्यतिचारा यदोद्भवन्तीष्टघातकास्तहि । भाव्यमुद्युक्तमनसा तत्प्रतिघाताय रुचिरधिय ॥६॥ यदि चातिचारभीत्या व्रत भवद्भिविधीयते नैव । तत्कि 'पापापगमोऽविरतेभविताऽथवा च सवरणम् ॥७॥ अतिचारक्षालताय बुधैरबोधि प्रकृष्टमाप्ततया । प्रायश्वित्त न च तद्विरतिविहीनाय गदितमहो? ।।८।। यच्चातिचारयुक्त श्रेयसे नैव यन् न्यगादि तदपि वरम् । अतिचाराणामवाय न तु व्रताना वियुक्तिकृते ॥९॥ न च तत्ततो न भवति प्रकृष्ट नैव जायते यस्मात् । अतिचाराभावाय तत्प्रोक्तं प्रोत्साहनायें (यव) ॥१०॥ कि यूकादिभीते सिचय परिधीयते न बुद्धिमता । न च मलिमसवासा स्याच्चारु. प्रकृतेऽपि तद्वदूह्यम् ॥११।। अतिचारोऽपि च तेषामधो नयति ये न सापेक्षा । आम जीर्यति नान्न विधिपक्व नैव तद्धि तथा ।।१२।। अतिचारक्षालनाय गुरो. प्रकटनाद्यगदमाम्नातम् । दोपो न सानुबन्धो भवति विशुद्ध व्रत च तत ॥१३॥ अत एवाहु -शक्या केऽपि.-सरागे भवेयुरकषायाः। धर्मे यैस्ते ह्रियन्ते सम्पद्यन्ते हित ते द्राक् ।।१४।।