________________
हितीयविगिका
तथा "निद्राच्छेदे योपिदङ्गसतत्त्व परिभावयेत् । स्थूलभद्रादिमावून! तनिवृत्ति परामृशन् ।।" इत्यादि। अत एव च नवपदप्रकरणे च चूर्णी च प्रतिव्रत श्रावकाणामप्यभिहितव साधूनामिव प्रतिव्रत भावना, यया भावितमनस्काना न स्यात् स्वलना, किन्तु वृद्धिरेव परिणामस्योतरोत्तर श्रेयोऽनुवन्विनी, अत एव च "गुणवहुमानादेनित्यस्मृत्या च सत्किया। जात न पातयेद्भावमजात जनयेदपि ।।१॥" इत्युच्यते । तत्परिणामावस्यान यद्यपि दुर्लभमेव, जनप्रतिपत्त्यवसरे विशिष्टतरगुद्धपरिणामभावात् । अत एवोच्यते साधूनुद्दिश्यापि यत्-"जाए सखाए निक्खतो तमेव अणुपालिय" इत्यादि । पर नैतावता तन्न कार्य, किन्तु तस्यैर्यायाऽनुसमयमुपयुज्य विधेयमेव तत्, अन्यथा सदैवाविरतेनाशुभपरिणामेनावस्थानापत्ते । न ह्यविरतत्व क्वचिदपि कथञ्चिदपि च प्रगसास्पद, यतो हि जिनाज्ञाभक्त्यादिकृत द्रव्यानुष्ठानमपि भविकाना भव्यभावाप्तयेऽभिमत सूरिभि -'जिनोक्तमिति सद्भक्त्या ग्रहणे द्रव्यतोऽप्यद' इत्याधुदाहृते । प्रतिपादिता च साधूनाश्रित्यापि प्रमत्तपयतताया अवस्थितिर्देशोना पूर्वकोटि । न चैषा परिणामेऽवस्थिते। तन्न तत्परिणामानवस्थानभिया क्रियमाणाऽविरतो स्थितिः श्रेयस्करी। 'शिक्षाव्रतानि हि सामायिकादीनीति भविप्यत्यभ्यासादेव परिणामस्यावस्थानम् । अत एव च "तिविहे दुप्पणिहाणे" इत्यादिना "मणोदुप्पणिहाणे” इत्यादिना 'योगदुप्रणिधानाऽनादरे'त्यादिना सावधचिन्तनादीनामतिचारताभिधान "मणेण वायाए" इत्यादिना कृता द्विविधत्रिविधसावद्यत्यागस्यापि सामायिकवत 'सङ्गच्छते, अन्यथा भङ्गमेवादिशेत्, न वा त्रिविधाद्यादिशेत्, पर सत्यामेव विरतावभ्यासेन परिणामावस्थानमिति ज्ञापनायवेदमिति कार्य उद्यमो रक्षायै, न ' तु व्रतपरिहृति ।