________________
द्वितीयविगिका
भाव्य निरपेक्षेण वा ज्ञाने, किन्त्वेतावन्मात्रमेव यद्यथा यथा भवति जीवाजीवादिनातृत्व तथा तथा कार्यैव विरतिरपि यथायोगम् । न हि केवलज्ञानमात्रेण त्रियामात्रेण वाऽभीप्टार्थसिद्धि , ; किन्तु ज्ञानक्रियायुगलेनैव । गास्त्रकारा अपि तथैव निरूपया
चक्रिरे, यत आहु -'हय नाण कियाहीण हया अन्नाणओ किया।" तथा "क्रिया च सज्ञान वियोगनिप्फला क्रियाविहीना च विबोघसम्पद"। न च सम्पूर्णज्ञाने साभिलाषेणाविरत स्थेय, तथा सति तदुत्पादम्यवाभावात्तत्कार्या यथाविाप्तज्ञानेन यथार्हा विरतिरिति पुन पुनरुच्यते, तदात्वे एवात्मोन्नतिभावात्, तदिदमाहु -"अप्प पि. सुअमहीअ पयासग होइ चरणजुत्तस्त । एक्को वि जहप्पईवो सचक्खुयस्स पयामेइ ॥१॥", इत्यादि। तन्नैतदपि क्षम, यत्तथाविधज्ञानाभावान्न क्रियते विरतिरिति । अथ च प्रतिपादयेयुभवन्तो यन्न तथाविधा शुद्धिलक्षणा सामग्री, तदभावाच्च क्रियमाण समस्तमप्यनुष्ठानमकिञ्चित्कर "व्रतानि सातिचाराणि' इत्यादिवचनाद, विराधितव्रताना च सुकुमालिकादीना स्पप्टैवावगम्यतेऽवनतिः, तन्न विधातव्यमीदृश, अवासितो हि यथाऽश्नुते शुभवासनायोग्यताम्, न तथाऽप्रशस्तवासितोऽवाम्यस्य तु कथैव का, भवति चिराभ्यस्ताशुद्ध तथात्वमिति नागुद्विर्यावत्तावत्कार्य किमपि- व्रतादीति । तदपि न रमणीय, यत शुद्धि का तावदभिप्रेता भवद्भि , किं तत्परिणामावस्थानलक्षणा, निरतिचारतालक्षणा, आपन्ने वातिचारे प्रायश्चित्तप्रतिपत्तिलक्षणा वेति त्रयी गति.। तत्राद्या चेत्, परिशीलयन्ता भावना ससारैकत्वान्यत्वाद्या , परिष्क्रयता च चित्तं सदागमवा। सनया, यत उच्यते एव-"यो य स्याद्वाधको दोपस्तस्य तस्य प्रतिक्रियाम् । चिन्तयेहोपमुक्तेषु प्रमोद यतिषु वजन् ।।१।।"