________________
द्वितीयविगिका
यत्सातिचारधर्माच्छे योऽकरण न तज्जिनाभिमतम् । प्रायश्चित्त यल्लघु सातिचारेऽकृते च गुरु ।।१५।। नैतन्नोऽन्वाख्यान प्रमादपुष्ट्य प्रमादिना किन्तु । तैरप्येतच्छोच्य देशहीन मम न जने ॥१६।। अतिचारवर्जनपरा बुद्धिर्धार्या व्रत च शक्त्यनुगम् । शास्त्राभिमतोऽध्वाऽय नि श्रेयससाधकः परम. ॥१७॥ न भयादतिक्रमादेस्त्याज्य व्रते न भाव्यमनपेक्षे । आरान्न पाचकोऽग्निर्न दूरगश्चोक्तमत एष्यम् ॥१८॥ यदि कथ्यते भवद्भिरापन्नेतिक्रमादिके दोपे। कार्य प्रायश्चित्त नेदानी दुष्पमाकालात् ॥१९॥ आसेवित यथा स्यात्पाप चालोच्यते तथा सद्भिः । प्रायश्चित्त (च)तथा स्याच्चेच्छुद्धिव्रताघाना ॥२०॥ वैद्यायाख्यायाद्यद् रोगमगद ददात्यसौ यत्तत् । कुर्याच्चेदामयावी पटुर्न विकले विधौ किञ्चित् ॥२१॥ व्रीडाकर निवेदनमागमविरहाच्च शोधिरपि नैव । सहननादिप्रहाण्या न च तत्कर्तुं क्षमश्चार्थी ।।२२।। तदल तेन वृषेण यदशुद्ध हन्त्यशुद्धमौपधवत् । अन्धो नाशोधित स्यात्पोपाय विकारकृत् किन्तु ॥२३।। नैतत्सुन्दर | सुन्दरमुक्तं गास्त्रोक्त्यतिक्रमाद्विजै । विज्ञानां न व्रीडा सुधियां पार्वेऽभवाभिलाषाणाम् ॥२४॥ अविकत्थना यतस्ते गाम्भीर्यन्यत्कृताब्धिगुणा । 'मसारातीतास्ते 'नैव ब्रीडा पुरो भवेनेषाम् ॥२५॥ शुद्धी ते गुणयुक्ता जाता विनयन्ति ता च तदा । । आगमश्रुतधारणाजा नेदांनी यद्यपि 'व्रतविशुद्धचै ॥२६॥