SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ [साधारणमत्येका वनस्पतिजीवा द्विधा श्रुते भणिताः । येषामनन्तानां तनुरेका साधारणस्ते तु ॥८॥ Sādhāraṇa pratyékā vanaspati-Jīvā dvidhā śruté bhaạitaḥ Yésāmanantānām tanurékā Sādhāraṇasté tu 11811] Trans.-8. In scripures, two kinds of Vanaspati Kayika ( Vegetable- bodied ) jivas are mentioned viz Sadharana (General ) and Pratyéka ( Individual . Those which, possess one ( Common ) form for many (beings) are (included under ) the Sadharana (General) type. 11811 व्याल्या-८-वनस्पतिजीवाः श्रुते आगमे द्विधा भणिताः-उक्ता इति सम्बन्धः । तत्रैके साधारणः, अन्ये प्रत्येकाः। “वणसइ ति" छन्दोभङ्गभयाद् द्वित्वं न । इह पूर्व तावत्साधारणस्वरूपं व्याख्यानयति "जेसित्ति” येषांवनस्पतिकायजीवानामनन्तानामेका तनुः-शरीरं ते साधारणः, अन्ये प्रत्येकाः। तथा चोक्तं श्री पज्ञापनायां-"समगं वक्ताणं समग तेसिं सरीरनिष्फत्ती। समगमाहारगहणं समगं उस्सासनिस्सासा ॥ १॥ एगस्स उजं गहणं बहूणं साहारणाण तं चेव । जं बहुआणं गहणं समासओ तं पि एगस्स ॥२॥ साहारणमाहारो साहारणमाणपाणगहणं च । साहारणजीवाणं साहारणलखणं एवं" ॥ ३॥ आसां सुगमार्थत्वान व्याख्यायते, भावार्थः स्वयमेव मावनीयः। तथा ते साधारणा द्विधा-एके सूक्ष्मसाधारणा एके बादरसाधारणा, सिद्धान्ते साधारणस्य निगोद इत्यपि संज्ञाऽस्ति । इह तावत्पूर्व सूक्ष्मनिगोद स्वरूपं दर्शयति, यदुक्तं संग्रहिण्यां-"गोला य असंखिज्जा असंखनिगोय १ समकं व्युत्क्रामता समकं तेषां शरीरनिष्पत्तिः । समकताहारग्रहणं समकमुच्छवासनिःश्वसौ ॥ १ ॥ एकस्य तु यदग्रहणं बहूनां साधारणानां तदेव । याहुकानां ग्रहणं समासतस्तदपि एकस्य ॥ २ ॥ साधारण आहारः साधारणमानपानग्रहणं च । साधारणजीवानां साधारणलक्षणमेतत् ॥ ३ ॥ २ समनिगोदो भदन्त ? सूक्ष्मनिगोदत्वे कालतः कियश्चिरं भवेत् गौतम ! जंधन्येन अन्तर्महर्तमुक्तर्षतः असङ्ख्येयोत्सर्पिण्यवसर्पिण्यः कालतः क्षेत्रतः।
SR No.010679
Book TitleJiva Vichar Prakaranam
Original Sutra AuthorN/A
AuthorRatnaprabhvijay
PublisherRatnaprabhvijay
Publication Year
Total Pages240
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy