________________
146
कालप्रमाणस्य तप्तल्योपमं । तत्रिधा-उद्धारपल्योपमं, अद्धापल्योपम, क्षेत्रपलयोपमं च । तत्र वालाग्राणां तत्खण्डानांचा प्रतिसमयंमुद्धारस्तद्विषयं तत्मधानं वा पलयोपमुद्धारपल्योपमं १ । अद्धा-कालः, स च कालः प्रस्तावाद्वालाग्राणां वत्खण्डानां वा प्रत्येकं वर्षशतलक्ष (णः) णं तत्मधानमद्धापल्योपमं २ । क्षेत्रमाकाशप्रदेशरूपं तत्पधानं क्षेत्रपल्योपमं ३। तत्पलयोपमं पुनरेकैकं विधाबादरं सूक्ष्मं च। तत्रायामविस्ताराभ्यामरगाहेनोत्सेधाङ्गलनिष्पन्नैकयोजन प्रमाणो वृत्तखाच्च परिधिना किञ्चिन्युनपड्भागाधिकयोजनत्रयमानः पलयो मुण्डिते शिरसि एकेनासा द्वाभ्यामहोभ्यां यावदुत्कर्षतः सप्तभिरहोभिः प्ररूढानि यानि वालाग्राणि तानि पचयविशेषानिविडतरमाकर्ण तथा भ्रियते यथा तानि वालाग्राणि वहिर्न दहति वायु पहरति जलं न कोथयति । यदुक्तत्-तेणं वालग्गा नो अग्गी डहेजा, नो वाउ हरेजा, नो सलिलं कुत्थिन्जा" इत्यादि। ततः किमित्याह-"तत्तो समए, इकिके अवहियम्मि जो कालो ति" ततः समये समये एकैकवालाग्रापहारेण यावता कालेन स पल्यः सकलोऽपि सर्वात्मना निलेपो भवति, तावत्कालः सङख्येयसमयमानो बादरमुद्धारपल्योपमो भवति । पतेषां च दश कोटीकोटयो बादरभुद्धारसागरोपमं, महत्त्वात्सागरेण समुद्रेणोपमा यस्येतिकृत्वा बादरे च प्ररूपिते मूक्ष्मं सुखावसेयं स्यादिति बादरोद्धारपलयोपमसागरोपमयोः प्ररूपणं। न पुनरेतत्परूपणेऽन्यद्विशिष्टं फलमस्तीति । एवं बादरेष्वद्धाक्षेत्रपल्योपमसागरोपमेष्वपि वक्तव्यं । एकैकं वालाग्रं असङख्येयानि खण्डानि कला पूर्ववत्पल्यो भ्रियते । तानि खण्डानि द्रव्यतः प्रत्येकमत्यन्तशुद्धलोचनछद्मस्थो यदतीवसूक्ष्मपुद्गलद्रव्यं चक्षुषा पश्यति तदसङख्येयभागमात्राणि क्षेत्रतस्तु सूक्ष्मपनकशरीरं यावति क्षेत्रऽवगाहते ततोऽसङख्येयगुणानि, वादरपर्याप्तपृथ्वीकायिकशरीर-तुलयानीति वृद्धाः । ततः प्रतिसमयं एकैक खण्डापहारेण सर्वो निर्लेपनाकालः सङख्येयवर्षकोटीप्रमाणः सूक्ष्मुद्धारपलयोपमं तदा कोटीकोटयः सूक्ष्ममुद्धारसागरोपमं । आभ्यां च सूक्ष्मोद्धारपळ्योपमसागरोपमाभ्यां द्वीपसमुद्राश्च भीयन्ते । तथा वर्षशते वर्षशतेऽतिक्रान्ते प्राक्तपलयादेकैकवालाग्रापहारेण सकलो निर्लेपनाकालः