________________
119
1
स्वयमात्मना बुद्धास्तश्वं ज्ञानवन्तः स्वयंबुद्धा तथा सन्तो ये सिद्धास्ते स्वयंबुद्ध सिद्धाः १२ । स्वयं बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो विशेषः । तथाहि स्वयं बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः, प्रत्येकबुद्धानां तदपेक्षया । श्रयते च- 'बस य इंदकेवलए अंबे य पुष्फिए बोही । करकंडुदुम्मुहस्स नमिस्स गंधाररण्णे य ॥ १ ॥ इति सूत्रे बाह्यवृषभादि प्रत्ययसापेक्षतया करकण्डवादीनां प्रत्येकबुद्धानां बोधिरिति । उपधिः स्वयं बुद्धानां पात्रादिद्वादशविधः । तद्यथापतं १ पत्ताबंधो २ पायट्टवणं ३ च पायकेसरिया ४ | पडलाइ ५ रयताणं ६ गोच्छओ, पायनिज्जोगो ॥ १ ॥ तिनेव य पच्छागा १० रयहरणं चेव ११ होइ मुहपोती १२ ॥ २ ॥ प्रत्येकबुद्धानां तु जघन्येन रजोहरणमुस्वपोति - कारूपो द्विविध उपधिः । उत्कृष्टतस्तु पुनश्चलपद्दकमात्रककल्पत्रिकवज नवविध उपधिः । स्वयं बुद्धानां पूर्वाधीतं श्रुतं संभवति न वा, प्रत्येकबुद्धानां तु पुनस्तन्नियमाद्भवति, जघन्येनैकादशाङ्गान्युत्कृष्टतोऽअभिन्नदश पूर्वाणीति । लिङ्गप्रतिपत्तिस्तु स्वयं बुद्धानां यदि पूर्वाधीतंश्रुतं नास्ति ततो नियमाद् गुरुसमीपे भवन्ति, गच्छे च विहरन्ति, अथ श्रुतं भवति ततो देवता किङ्गं प्रयच्छति गुरुसमीपे वा तत्प्रतिपद्यन्ते । यदि चैकाकिविहारेच्छावन्तस्तदौकाकिन एव विहरन्ति, अन्यथा गच्छ एवासते इति । प्रत्येकबुद्धानां पुनर्लिङ्ग देवतैव ददाति, लिङ्गवर्जिता वा भवन्ति १२ । तथैकैकस्मिन् समये एकैका एव सन्तो ये सिद्धास्ते एकसिद्धाः १३ । एकसमये द्वयादीनामष्टशतानां सेधनादनेकसिद्धाः । तत्राने समय सिद्धानां प्ररूपणार्थ गाथा: - बत्तीसा अडयाला सट्टी बाबत्तरी य बोद्धव्या । चुलसी छन्नबई, दुरहियमहुत्तरस्यं च ॥ १ ॥ एतद्विवरणं- यदैकस्मिन्समये एकादिर्वा उत्कर्षेण द्वात्रिशत्सिध्यन्ति तदा द्वितीयसमयेऽपि द्वात्रिंशत, एवं नैरन्तर्येणाष्टौ समयान् यावद् द्वात्रिंशत्सिध्यन्ति, तत ऊर्ध्वम
1 वृषभश्च इन्द्रकेतुवलयं आम्रच पुष्पिता । बोधिः करकण्डोर्दुर्मुखस्य, नमेर्गान्धारराज्ञश्च ॥ १ ॥
१ पात्रं पात्रबन्ध: पात्रस्थापनं च पात्रप्रमार्जिका । पटलानि रजस्त्राणं गोच्छक: पात्रनिर्योगः ॥ २ ॥
A
त्रण एव प्रच्छादका रजोहरणं चैव मुखवृत्रिकाभवति ॥