________________
បន់
करलोपे सिध्यति । तद्यथा-तीर्थकराः सन्तो ये सिद्धास्ते तीर्थकरसिद्धाः १ । अतीर्थकराः सामान्य केवलिनः सन्तो ये सिद्धास्तेऽतीर्थ(कर) सिद्धाः ।। इति सामान्यं, अथो विशेष व्यनक्ति-वीर्यते संसारोऽनेनेति तीर्थ यथावस्थितजीवाजीवादिपदार्थमरूपकं परमगुरुपणीतं प्रवचनं, तच्च निराधारं न भवतीति स संघः प्रथमगणधरो वा वेदितव्यः, तस्मिनुत्पन्ने ये सिद्धास्ते तीर्थसिद्धाः ३ । तथा च स्वलिङ्गे रजोहरणादिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते स्वलिङ्गसिद्धाः ४। तथाऽन्यलिङ्गे परिव्राजकादि सम्बन्धिनि वल्कलकषायादिरूपे द्रव्यलिङ्गे व्यवस्थिताः सन्तो ये सिद्धास्तेऽन्यलिङ्गसिद्धाः। यदाऽन्यलिङ्गिनां भावतः सम्यक्त्वादिप्रतिपन्नानां केवलमुत्पद्यते, तत्समयं च कालं कुर्वन्ति, तदैवान्यलिङ्गसिद्धत्वं द्रष्टव्यं, अन्यथा यदि दीर्घमायुष्कमात्मनः पश्यन्ति ज्ञानेन ततः साधुलिङ्गमेव प्रतिपद्यन्तेः । तथा स्त्रिया लिङ्ग स्त्रीलिङ्गं स्त्रीत्वस्योपलण क्षमित्यर्थः। (तच्च) वेदः शरोनिवृत्तिर्नेपथ्यं च। तत्रेह शरीरनिवृत्त्या प्रयोजनं न वेदनेपथ्याभ्यां, वेदे सति सिद्धा(प्य) भावात्, नेपथ्यस्य चाममाणत्वात् । तस्मिन् स्त्रीलिङ्गे वर्तमानाः सन्तो ये सिद्धाः प्रत्येकबुद्धवर्जिताः केचित् स्त्रीलिङ्गसिद्धाः ६। तथा पुरुषलिङ्गे शरीर निवृत्तिरूपे व्यवस्थिताः सन्तो ये सिद्धास्ते पुरुषलिङ्गसिद्धाः ७ । तथा नपुंसकलिङ्ग वर्तमानाः सन्तो ये सिद्धास्ते नपुंसकलिङ्गसिद्धाः ८ । ग्रहस्थाः सन्तो ये सिद्धास्ते गृहलिङ्गसिद्धाः ९ । तथा तीर्थस्यामावोऽतीर्थ, तीर्थस्याभावस्तु अनुत्पादेऽपान्तराले वा ब्यवच्छेदे तस्मिन् समये सिद्धाः जाति स्मरणादिना निर्दग्धकर्माणोऽतीर्थसिद्धाः। तत्र तीर्थस्यानुत्पादे सिद्धा मरुदेवीप्रभृतयः, न हि मरुदेव्याः सिद्धिगमनकाले तीर्थमुत्पन्नमासीत् । तीर्थव्यवच्छेदश्च मुविधिप्रभृतीनां तीर्थकृतां सप्तस्वन्तरेषु । यदाह-जिणंतरे साहुवुच्छेओ' ति । तत्रापि ये जाविस्मरणादिना प्राप्तापवर्गमार्गाः केवलिनो भूत्वा सिध्यन्ति ते तीर्थव्यवच्छेदे सिद्धाः १० । प्रतीत्येक किञ्चिद् वृषभादिकं अनित्यादिभावनाकारण वस्तुबुद्धाः बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धाः (तथा) सन्तो ये सिद्धास्ते प्रत्येकबु(द्ध सिद्धाः)दाः ११ ।
जिनान्तरे त्याधुविच्छेदः।