________________
M
द्वितीयोऽधः । मिथ्यादृष्टिः- हन्त पआसे एव्वं पउत्तेण भत्तुणा ळजमि। महामोहः-तद्भवतु । स्वोगारमेव प्रविशामः ।
(इति निष्क्रान्ताः सर्वे ।) इति श्रीकृष्णमिश्रयतिविरचिते प्रबोधचन्द्रोदये
द्वितीयोऽङ्कः ॥
मिथ्यादृष्टिः । हन्त प्रकाश एवं प्रवृत्तेन भी लज्जे । शालीना भवामीत्यर्थः। उक्तं च
"स्खलितं मम जानीयुरिति चिन्तासमुद्भवा ।
मानसी विक्रिया लज्जा सर्ववृत्तिनिरोधिनी ॥" इति ।
तद्भवत्विति । हेपितामालक्ष्य सदसि तस्याः स्त्रीत्वाद् भवतु तहीति मन्वानोऽवरोधगृहं गत इत्यर्थः ॥ इति श्रीमत्प्रकाशतीर्थभगवत्पूज्यपादशिष्येण गोविन्दामृतभगवता कृते नाटकाभरणे
द्वितीयोऽः ॥
१. 'हः- भव', २. 'वासागा' ख. पाठः.
३. 'त' ब. ग. प. पा.