________________
द्वितीयोऽङ्कः । महामोहेः-प्रिये ! स्मर्यते सा हि वामोरु! च्युता या हृदयाद् बहिः ।
मञ्चित्तभित्तौ भवती सालभञ्जीव राजते ॥ ३६ ॥ मिथ्यादृष्टिः - (क) महप्पसादो।
महामोहः -- यथैव प्रकाशितैरङ्गैः सर्वत्र विचरसि तथैव प्रवर्तितव्यम् । अन्यच्च दास्याःपुत्री श्रद्धा विवेकेन सहोपनिषदं संयोजयितुं कुट्टिनीभावं प्रतिपन्ना । ततः -
प्रतिकूलामकुलजां पापां पापानुवर्तिनीम् ।
केशेष्वाकृष्य तां रण्डां पाषण्डेषु निवेशय ॥ ३७॥
(क) महान् प्रसादः । न खलु भावानुबन्धः प्रेमा कालेनापि विघटते । आज्ञापयतु भर्ता किन्निमित्तं भर्ना स्मृतास्मि ।
ननु किमर्थमेवमुच्यते । प्रिये ! व्यवहितार्थविषया खलु स्मृतिः । त्वं तु मञ्चित्तभित्तौ कृत्रिमचित्रविचित्रा पुत्रिका स्त्रीव विराजसे । अतस्त्वामपरोक्षां कथं स्मरामीत्येतदाह-स्मर्यत इति ॥ ३७ ॥
मिथ्यादृष्टिः । महान् प्रसादः ।
दास्याः दौसेर्याः । कुट्टिनी नाम प्रणयकलहकलुषितदम्पत्योः संबोधिको मञ्जुलभाषिणी शम्भली भण्यते । ततः किमिति तत्राह - तत इति ।
प्रतिकूलाम् अस्मद्विद्वेषिणीम् अकुलजामकुलीनां कुलक्षयप्रवृत्तविवेकाद्यनुसरणात् पापां पापानामनुसरणादेव पापानुवर्तिनी तां रण्डां विधवां पाषण्डागमष्वेव सम्पादयेत्यर्थः ॥ ३७ ।। . १. 'हः- स्म', २. 'आ' ख. पाट:. ३. 'तली स्त्री' ख. घ. पाठः, ४. 'दासभार्यायाः।' ख. ग. पाठः. ५. 'षीकृत' घ. पाठः ६. 'का श' ग, पाठः. ७. 'प्र', ८. 'नां तेषाम' घ. पाठः.