________________
द्वितीयोऽङ्कः । अनुहर हरिणाक्षि ! शङ्करार्ध
स्थितहिमशैलसुताविलासलक्ष्मीम् ॥ ३४ ॥
___(मिथ्यादृष्टिः सस्मितं तथा करोति ।) महामोहः-- (आलिङ्गनसुखमभिनीय) अहो प्रियायाः परिष्वङ्गात् परावृत्तं नवयौवनेन । तथाहि - यः प्रागासीदभिनववयोविभ्रमावाप्तजन्मा
चित्तोन्माथी विगतविषयोपप्लवानन्दसान्द्रः । तथा परिरम्भणायमित्यर्थः । शङ्करार्धेति । यथा खलु परमेश्वरेण परमकारुणिकेन भक्तजनपरवशेनात्मपक्षपातेन अनन्यशरणतयाश्रितश्रीपार्वत्याः परमतरभक्तिश्रद्धास्नेहबहुमानबाहुल्यदर्शननिम्ननिजतेजसा सामि समनुगृहीतं, तद्वदिह ममापि प्रिये ! प्रचुरतरपरिष्वङ्गपरमसौख्यसम्प्रकाशनेनात्मतनुं सर्वात्मना समनुगृहाणेत्यर्थः । उक्तं च -
"अतिस्नेहापकृष्टोमा देहाधू शूलिनः श्रिता ।
त्वं तु सर्वात्मनात्मानं कृत्वं मामाप्तुमिच्छसि ॥" इति ॥ ३४॥ परावृत्तं पुनरपि सम्प्राप्तं तारुण्येन । तदेव दर्शयति-तथाहीति ।
यो मान्मथो विकारः प्रागासीदिति व्यवहितेन सम्बन्धः । कथम्भूतः प्रागिति तत्राह - अभिनवेति । अभिनवत्वं नाम वयसः पञ्चविशाब्दिकत्वम् । वयसो विभ्रमस्तदुद्रेकस्तेन प्राप्तोत्पत्तिरित्यर्थः । स एव विशेष्यते-चित्तोन्माथीति । मान्मथः खलूद्वेलमुज्जृम्भमाणो विकारः प्राणवल्लभासेमागममृदुतरमधुरविरचितमदमन्दमन्म ङ्घलक्वाणतलालतसरससीत्कारविशदचतुरपरिरम्भणपरमसौख्याविवशो विभ्रमयति यूनां चित्तमित्यर्थः । पुनरपि विशेष्यते-विगतविषयेति । विगतो विभ्रष्टो विषयै
१. 'याप' घ. पाठः. २. 'मोपात्तज' ख. पाठः. ३, 'तीत्य' क. पाठः. ४. 'म प', ५. 'नुगमनम', ६. 'न्दम', ७. 'तससी', ८. 'णसौ' ख. पाठः. ९. 'परव' क. पाठः,