________________
प्रबोधचन्द्रोदये सव्याख्ये नीलेन्दीवरदामदीर्घतरया दृष्टया धयन्ती मनो
दोरान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥३३ ॥ विभ्रमावती- (क) एसो महाराओ। उवसप्पदु पिअसही। मिथ्यादृष्टिः-- (उपसृत्य) (ख) जअदु जअदु महाराओ। महामोहः-- प्रिये! दलितकुचनखाङ्कमङ्कपाली
रचय ममाङ्कमुपेत्य पीवरोरु ! । (क) एष महाराजः । उपसर्पतु प्रियसखी ।
(ख) जयतु जयतु महाराजः । खेदपरवशमदनमन्दमधुरतरखेलगतिशालिनीत्यर्थः । दरं स्तोकं धम्मिल्लादीषद्गलतः स्खलतो माल्यस्यापवृत्तिः पुनरपि तत्रैव संवरणं तेन व्याजेन लोलं चलं (यथा) तथा ऊर्व क्षिप्ताभ्यां भुजाभ्यां प्रकाशितयोः कुचयोः अभिव्यज्यमानानां नखपदानां पङ्क्तिर्यस्याः सा तथोक्ता । दीर्घतरया दृष्टया कटाक्षमालया धयन्ती अस्मन्मनो हरन्तीत्यर्थः । दोष्णोरान्दोलनेन डोलायितेन लोलं चलं कङ्कणं करभूषणं (यस्याः १ तस्य) झणदित्यनुकरणशब्दः । तदुत्तरं तत्प्रचुर यर्थी तथा गच्छतीत्यर्थः ॥ ३३ ॥
विभ्रमावती । एष महाराजः । उपसर्पतु प्रियसखी । मिथ्यादृष्टिः । जयतु जयतु महाराजः ।
चिरोत्कण्ठितमासाद्य प्रियासङ्गमौत्सुक्यभारपरिखेदपरवशः प्राहप्रिये इति ।
पृथुतरपीनपीवररमणीयोत्तुङ्गकुचकलशनखपदविदैलनं यथा भवति
१. 'दमदनमधु' ग. पाटः. २. 'मदभावालसग' स. घ. पाट:. ३. 'पि सं' ख. पाठः. ४. 'वा' ख. ग. घ. पाठः, ५. 'चञ्चलं' घ. पाट:. ६. 'शिर्विद्यतेर्यस्याः' ख. पाठः. ७. 'चलं', ८. 'था भवति त', ९. 'तु म', १०. 'म', ११. 'लेखनं घ. पाठः