________________
प्रवाषचन्द्रा
प्रबोधचन्द्रोदये सव्याख्ये __ क्रोधः- प्रिये! सहधर्मचारिण्या त्वया मातृपितृवधोऽपि ममेषत्कर एव । तथाहि - केयं माता पिशाची क इव हि जनको भ्रातरः केऽत्र कीटा वन्ध्योऽयं बन्धुवर्गः कुटिलविटसुहृच्चेष्टिता ज्ञातयोऽमी ।
(हस्तौ निष्पीड्य) आगर्भ यावदेषां कुलमिदमखिलं नैव निःशेषयामि स्फूर्जन्तः क्रोधवढेर्न दधति विरतिं तावदङ्गे स्फुलिङ्गाः
[॥३२॥ (विलोक्य) एष स्वामी । तदुपसर्पामः। सर्वे (उपसृत्य) जयतु जयतु देवः । एते वयं किङ्कराः । तदादिशतु देवः।
महामोहः-श्रद्धायास्तनया शान्तिरस्माद्विद्वेषिणी। सा भवद्भिावहिनिग्राह्या। सर्वे- यदादिशति देवः।
__ (इति निष्क्रान्ताः) सहधर्मचारिण्या धर्मपल्या । ईषत्कर इति । अत्यन्तकठोरतरो हि मात्रांदिवधः । सोऽप्यनुकूलया त्वया ईषत्करः अक्लेशेन कर्तुं शक्यत इत्यर्थः।
बन्धुवर्गः सम्बन्धिनः । ज्ञातयः सगोत्रिणस्तेऽपि कुटिला अनुजवो विटाः स्वार्थपराः सुहृद इव व्यापारवन्तः। हिंसा चेदनुकूला भवति, तदानीं क्रोधोऽपि निरर्गलो भवतीत्याह - हस्ताविति । स्फूर्जन्तः स्फुरन्तः । स्फुलिङ्गा अमिकणाः ॥ ३२॥
श्रद्धायास्तनयेत्यत्र सात्त्विकश्रद्धापुत्री विवक्षिता । .. , 'पित्रादि' क. पाठः