________________
द्वितीयोऽङ्कः ।
६९
तृष्णे ! देवि ! यदि प्रसीदसि तनोष्यङ्गानि तुङ्गानि चेत् तद् भोः प्राणभृतां कुतः शमकथा ब्रह्माण्डलक्षैरपि ॥३१॥
तृष्णा -- (क) अज्जउत्त ! सअं जेव्व दाव अहं एदस्सि अत्थे णिच्चं अहिजुत्ता । सम्पदं अज्जउत्तस्स अण्णाऐ बह्मण्ड - कोडीहिं पि ण मे उअरं पूरइस्सदि ।
क्रोधः - हिंसे ! इतस्तावत् ।
( प्रीवर)
हिंसा (ख) एस | आणवेदु अज्जउत्तो ।
(क) आर्यपुत्र ! स्वयमेव तावदहमेतस्मिन्नर्थे नित्यमभियुक्ता । साम्प्रतमार्यपुत्रस्याज्ञया ब्रह्माण्डकोटिभिरपि न मे उदरं पूरयिष्यते । (ख) एषास्मि । आज्ञापयत्वार्यपुत्रः ।
"विरोधेऽपि स्फुटे मां कालेनैतद् भवेदिति । अनुपेक्षाक्षमत्वं यत् पुंसामाशां वदन्ति ताम् ॥”
इति । सैवाशा दीर्घसूत्रवत् सूत्रं बन्धनहेतुत्वात् । तेनेत्यर्थः । यदि प्रसीदसीति । न कदाचिदपि सञ्जातालंप्रत्यया चेत् । अङ्गानि तुङ्गा - नीति । प्रतिविषयं तरुणतर तृष्णाविशेषावयवोचितानि निर्वर्तयसि चेत् तर्हि सिद्धं नः समीहितमित्यर्थः ॥ ३१ ॥
तृष्णा । आर्यपुत्र ! स्वयमेव तावदेहमेतस्मिन्नर्थे नित्यममियुक्ता । साम्प्रतमार्यपुत्रस्याज्ञया ब्रह्माण्डकोटिभिरपि न मे उदरं पूरयिष्यते । “अस्माभिर्यदनुष्ठेयं गन्धर्वैस्तदनुष्ठितम् !”
इति न्यायादस्मदभिप्राय एवार्यपुत्रैस्य व्यवसायोऽप्यतोऽनुकूलैवाहमित्यर्थः ।
पाठ:.
ततोऽखिलप्राणिनां प्राणप्रतिइतिलक्षणा हिंसा । एषास्मि । आज्ञा
पयत्वार्यपुत्रः ।
4. 'भू ॥" सै' ख. पाठः. ४. 'ति' ग. घ. पाठः
१. 'त् तर्हि' क. पाठः • ३. 'देत' ख. प.
५. 'त्र व्य' घ. पाठः. ६. 'ह' ल. घ. पाठ