________________
प्रबोधचन्द्रोदये सव्याख्ये मूलं देवी सिद्धये विष्णुभक्ति
स्तां च श्रद्धानुव्रता सत्त्वकन्या । कामान्मुक्तस्तत्र धर्मोऽप्यभूच्चेत्
सिदं मन्ये तद् विवेकस्य साध्यम् ॥ २६ ॥
तथापि तावदसुव्ययेनापि स्वामिनः प्रयोजनमनुष्ठेयम् । तन्महाभैरवीं विद्यां धर्मश्रद्धयोराहरणाय प्रस्थापयामः।
__ (इति निष्क्रान्ताः ।) मूलम् अन्यनिरपेक्षं कारणम् । विष्णुभक्तिरिति वर्णाश्रमप्रयुक्तविहितानुष्ठानम् ।
"भक्तिर्भजनमित्युक्ता वाङ्मनःकायकर्मभिः ।" इति वचनाद निरतिशयलेहबहुमानपूर्वकं सर्वप्रकारभजनम् । अथवा 'समत्वमाराधनमच्युतस्य' 'ज्ञानी त्वात्मैव मे मतमिति वचनाद् आत्मनोऽनन्यबुद्ध्येश्वरे चेतःसमर्पणरूपा सम्यग्दर्शनलक्षणा विष्णुभक्तिरिति । अथवा 'मद्भक्तो मयीश्वरे सर्वज्ञे परमगुरौ वासुदेवे समर्पितसर्वात्मभावो यत् पश्यति शृणोति स्पृशति वा सर्व एव भगवान् वासुदेवः इत्येवंग्रहाविष्टबुद्धिमद्भक्तः' इत्युक्तलक्षणां विष्णुभक्तिः। अनुव्रता अनुगता श्रद्धा आस्तिक्यबुद्धया विश्वासिता। पाषण्डश्रद्धां व्यावर्तयति- सत्त्वकन्येति । कामान्मुक्त इति । काम्यकर्मणः प्रतिबन्धकत्वात् तद्व्यतिरेकेणेत्यर्थः । सिद्ध निष्पन्नम् । साध्यं नामाविद्यातत्कार्यलक्षणसंसारानर्थनिवृत्तिः, निरतिशयानन्दाविर्भावश्चेति ॥ २६ ॥
नन्वशक्यप्रतीकार एवायमर्थः, तथापि भृत्येन प्राणविनियोगेनापि परिरक्षणीय एवापद्गतः स्वामीति सन्तः समुशन्ति तदस्माभिरपि तथा कार्यमित्यभिप्रायेणाह- तथापीति । क्षपणकशाक्ययोरसतर्कामासशरणत्वाद् भैरव्यास्तु विद्याया मायाविधानपटीयस्त्वात् सैव प्रेषितेत्यर्थः ।
१. 'साम्यद' ख. पाठः. २. 'णा । अ', ३. 'मो' ग. पाठः. ४. ' कांदयां प्रपन्ना स्वा' क. ब. पाठः,