________________
८८
प्रबोधचन्द्रोदये सव्याख्ये ळभासिदो पळमत्थो मोक्खसुखदो धम्मो । (इति परिकामति)।
(आकाशे) ळे ळे सावआ! सुणाह सुणाह - मळमअपुग्गळपिण्डे सअळजळेहिं वि केळिसी सुद्धी । अप्पा विमळसहावो किसि पळिचळणेहि जाणव्वो!५॥ किं भणाह, केळिसं ळिसिपळिचळणं ति । तं सुणाहदूळे चळणपणामो किदसकाळं च भोअणं मिट्ठम् ।
इस्सामळं ण कज्जं लिसिणं दाळं ळमन्ताणम् ॥ ६॥ चषकनिक्षिप्तपद्मरागरक्तं क्षीरं तादृशव्यवहारगोचरं भवत्येवमेवायमपि करिनरतुरगादिशरीरपरिमित आत्मा तत्सम्बन्धादहमिति प्रतीयते । तस्य च बहिःसत्त्वे मानाभावात् , जिनवरभाषितत्वाच्च एवमेव दर्शनस्थितिरित्यर्थः ।
___ एवं दर्शनं प्रदाधुना तज्ज्ञानोपार्यप्रकारं दर्शयितुं श्रावकान् परिकल्प्याह- आकाश इति । उक्तं च -
"अप्रत्यक्षेण पात्रेण करोत्यालापसङ्कथाम् ।
यत्किञ्चित्कार्यसम्बन्धमाकाशवचनं तु तत् ॥" इति । रे रे श्रावकाः! शृणुत शृणुत -
मलमयपुद्गलपिण्डे सकलजलैरपि कीदृशी शुद्धिः ।
आत्मा विमलस्वभाव ऋषिपरिचरणैतिव्यः ।। तत्र ऋषयो नामातसिद्धान्तवेदिनः । पुद्गलपिण्डः शरीरम् ॥५॥
किं भणथ, कीदृशमृषिपरिचरणमिति । तच्छृणुत ।
दरे चरणप्रणामः कृतसत्कारं च भोजनं मृष्टम् । ईर्ष्यामलं न कार्यमृषीणां दारान् रममाणानाम् ॥
दूर इति । दर्शनमात्रादेव सत्वरं नमस्कर्तव्यमित्यर्थः । सत्कारसधीचीनम् अन्नं च सरसतरं दातव्यम् । भुक्तवतां तु तेषामृषीणां रन्तुं
१. 'मी',
२. '' ख. घ. पाठः.