________________
प्रबोधचन्द्रोदये सव्याख्ये _शान्तिः- सखि ! कियदन्विष्यते । नीवाराङ्कितसैकतानि सरितां कूलानि वैखानसै
राक्रान्तानि समिच्चषालचमसव्याप्ता गृहा यज्वनाम् । प्रत्येकं च निरूपिताः प्रतिपदं चत्वार एवाश्रमाः श्रद्धायाः क्वचिदप्यहो सखि! मया वार्तापि नाकर्णिता ॥३॥
सखि! कियदन्विष्यत इति । सर्वत्रापि निरूपितमित्यर्थः ।
तदेव दर्शयति-नीवारेति । नीवारः तृणधान्यं, रक्तशूमित्यर्थः । वैखानसैराकान्तानि सेवितानि । ननु नीवाराङ्कितपुलिनेषु पैश्यादीनामेव सम्भावना, न तपस्विनामिति चेत् । सत्यम् । एवमकृर्ततपःश्रमाणामाशङ्का शोशुभ्यते । तपस्विनः खलु मूलफलश्यामाकरक्तशूकादिकमन्विष्य तत्सुलभसरित्पॅरिसरादिषु वर्तन्त एवं । तत्रापि न मन्माता श्रद्धा सम्यगुपलब्धेत्यर्थः । चषालो यूपकटकः । चमसो नाम चतुरश्रो यज्ञपात्रविशेषः। यज्ञशालायामपि न विद्यत एवेत्यर्थः । प्रत्येकमेकैकत्वेन । प्रतिपदमिति । नैष्ठिकादिभेदभिन्नेषु वर्णिगृहमेधिवनवासिपरिव्राजकाश्रमेषु चतु
वपि । प्रत्येकं प्रतिपदमिति । गायत्रो ब्राह्मः प्राजापत्यो बृहन्निति ब्रह्मचारिभेदाः । वार्ताकाः शालीनवृत्तयो यायावरा घोरसन्न्यासिन इति गृहमेविभेदाः । तथा वैखानसा वालखिल्या औदुम्बराः फेनपा इति वानप्रस्थ. भेदाः । तथा कुटीचकबहूदकहंसपरमहंसा इति सन्न्यासिभेदाः । एवं ब्राह्मणादिभेदेष्वाश्रमभेदेषु नोपलब्धैव सेत्यर्थः । चत्वार एवेत्येवकारेण सुगतादिपाषण्डानां वर्णाश्रमित्वादिबाह्यतामसूचयत् । वार्तापि नाकर्णितेति । रजस्तमोभिभूतचित्तानां न श्रद्धाया गन्धमात्रस्यापि अवकाश इति भावः ॥३॥
१. 'कम् ।', २. 'सैर्वनवासिभिरा' ख. घ. पाठ:. ३ 'जळकादी', ४. 'तभ्र', ५. 'सा शक्यते ।' क. पाठः. ६. 'नीवारादि', ७. 'तीरा' क. ख. घ. पाठः. ८. 'वम् । त', ९. 'श्ये' क. ग. पाटः, १०. 'ब्रह्मचर्यादि' क. पाठः. ११. 'मेष्वपि प्रति परीक्षितेष्वपि नो' ख. घ: पाठः. १२. 'सूसुचत्' ग. पाठः.