________________
तृतीयोशः।
८३ अथवालं जीवितंसम्भावनया । यतःमामनालोक्य न स्नाति न भुङ्क्ते न पिबत्यपः । न मया रहिता श्रद्धा मुहूर्तमपि जीवति ॥ २ ॥
तद् विना अडया मुहूर्तमपि शान्तेर्जीवितं विडम्बन'मेव । तत् सखि! करुणे! मदर्थ चितामारचय। यविदचिरैमेव हुताशनप्रवेशेन तस्याः सहचरी भवामि ।
करुणा --- (सास्रम्) सहि ! एव्वं विसमज्जोळणज्जाळावळीतिखाई अक्खराइं जप्पन्ती सबहा विळुत्तजीविअं मं करेसि । ता पेसीद । मुहुत्तरं धारेवु जीविअं पिअसही। जाव इदो तदो पुण्णेसु अस्समेसु मुणिअणसमाउळेसु भाईरहीतीरेसु सुणिउणं णिरूवह्म । सा कदाइ वि महामोहभीदा कह वि पच्छण्णं णिवसइ ।
मामनालोक्येति । शान्तिश्रद्धयोर्जन्यजनकभावादन्यतराभावे न भवत्येवेति भावः । तस्मान्मात्रा विना मुहूर्त कालमपि प्राणधारणमयुक्तमित्यर्थः ॥२॥
करुणा । सखि ! एवं विषमज्वलनज्वालावलीतीक्ष्णान्यक्षसणि जल्पन्ती सर्वथा विलुप्तजीवितां मां करोषि । तस्मात् प्रसीद, मुहूर्त धारयतु जीवितं प्रियसखी । यावदितस्ततः पुण्येष्वाश्रमेषु मुनिजनसमाकुलेषु मागीरवीत्तीखें सुनिपुणं निरूपयावः । सा कदाचिदपि महामोहमीता कथमपि प्रच्छन्नं निवसति ।
१. 'वनस', २. 'स्वपित्यपि।', ३. क्षणार्धम', ४. 'वनं वि', ५. 'णे चि', .. 'रादेव', ७. 'अ', ८. 'खसहाई अ', ९. 'पसी', १०. 'हि' ख. पाठः. ११. 'णं हास्यमि' ख. प. पाठः. १२. 'क्ष्णदुस्सहाम्य' क. घ. पाठः. १३. 'पु नि' क. पाठः, ११. 'स्मिन्नपि' ग. पाठः.
.2