SearchBrowseAboutContactDonate
Page Preview
Page 864
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे १८ प्रेत्यासुखप्रदो धर्मः पुरुषाश्रितलादधर्मवत् । १९ शुचि नरशिरःकपालं प्राण्यङ्गवाच्छङ्खशुक्तिवत् । २० माता मे वन्ध्या पुरुषसंयोगेऽप्यगर्भवात्प्रसिद्धवन्ध्यावत् । २१ हेलाभासा असिद्धविरुद्धानकान्तिकाकिञ्चित्कराः। २२ असत्सत्तानिश्चयोऽसिद्धः। २३ अविद्यमानसत्ताकः परिणामी शब्दश्चाक्षुषवात् । २४ स्वरूपेणासत्त्वात् । २५ अविद्यमाननिश्चयो मुग्धबुद्धिं प्रत्यग्निरत्र धूमात् । २६ तस्य बाष्पादिभावेन भूतसङ्घाते सन्देहात् । २७ सांख्यं प्रति परिणामी शब्दः कृतकत्वात् । २८ तेनाज्ञातत्वात् । २९ विपरीतनिश्चिताविनाभावो विरुद्धोऽपरिणामी शब्दः कृतकखात् । ३० विपक्षेऽप्यविरुद्धवृत्तिरनैकान्तिकः । ३१ निश्चितवृत्तिरनित्यः शब्दः प्रमेयत्वात् घटवत् । ३२ आकाशे नित्येऽप्यस्य निश्चयात् । ३३ शङ्कितवृत्तिस्तु नास्ति सर्वज्ञो वक्तृवात् । ३४ सर्वज्ञलेन वक्तवाविरोधात् । ३५ सिद्धे प्रत्यक्षादिबाधिते च साध्ये हेतुरकिश्चित्करः। ३६ सिद्धः श्रावणः शब्दः शब्दत्वात् । ३७ किञ्चिदकरणात् । ३८ यथाऽनुष्णोऽग्निद्रव्यवादित्यादौ किञ्चित्कर्तुमशक्यत्वात् । ३९ लक्षण एवासौ दोषो व्युत्पन्न प्रयोगस्य पक्षदोषेणैव दुष्टखात् । ४० दृष्टान्ताभासा अन्वयेऽसिद्धसाध्यसाधनोभयाः। ४१ अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुखपरमाणुघटवत् । ४२ विपरीतान्वयश्च यदपौरुषेयं तदमूर्तम् । ४३ विद्युदादिनाऽतिप्रसङ्गात् । ४४ व्यतिरेकेऽसिद्धतयतिरेकाः परमाण्विन्द्रियसुखाकाशवत् । ४५ विपरीतव्यतिरेकश्च यन्नामूर्त तन्नापौरुषेयम् । ४६ बालप्रयोगाभासः पञ्चावयवेषु कियद्धीनता। ४७ अग्निमानयं देशो धूमवत्त्वात् यदित्थं तदित्थं यथा महानस इति । ४८ धूमवांश्चायमिति वा। ४९ तस्मादग्निमान् धूमवांश्चायमिति । ५० स्पष्टतया प्रकृतप्रतिपत्तेरयोगात् । ५१ रागद्वेषमोहाक्रान्तपुरुषवचनाजातमागमाभासम् । ५२ यथा नद्यास्तीरे मोदकराशयः सन्ति धावध्वं माणवकाः। ५३ अङ्गुल्यग्रे हस्तियूथशतमास्त इति च ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy