SearchBrowseAboutContactDonate
Page Preview
Page 865
Loading...
Download File
Download File
Page Text
________________ परीक्षामुखसूत्रपाठः ६४४ ५४ विसंवादात् । ५५ प्रत्यक्षमेवकं प्रमाणमित्यादि संख्याभासम् । ५६ लौकायतिकस्य प्रत्यक्षतः परलोकादिनिषेधस्य परवुद्ध्यादेश्वासि धेरतद्विषयलात् । ५७ सौगतसांख्ययोगप्राभाकरजैमिनीयानां प्रत्यक्षानुमानागमोपमा___नार्थापत्त्यभावैरेकैकाधिकैर्व्याप्तिवत् । ५८ अनुमानादेस्तद्विषयत्वे प्रमाणान्तरत्वम् । ५९ तर्कस्यैव व्याप्तिगोचरवे प्रमाणान्तरत्नम् अप्रमाणस्याव्यवस्थापकत्वात् ! ६० प्रतिभासमेदस्य च भेदकलात् । ६१ विषयाभासः सामान्यं विशेषो द्वयं वा खतन्त्रम् । ६२ तथाऽप्रतिभासनात्कार्याकरणाच्च । ६३ समर्थस्य करणे सर्वदोत्पत्तिरनपेक्षत्वात् । ६४ परापेक्षणे परिणामित्वमन्यथा तदभावात् । ६५ खयमसमर्थस्य अकारकत्वात्पूर्ववत् । ६६ फलाभासं प्रमाणादभिन्न भिन्नमेव वा । ६७ अमेदे तद्व्यवहारानुपपत्तः। ६८ व्यावृत्त्याऽपि न तत्कल्पना फलान्तराद्यावृत्त्याऽफलवप्रसङ्गात् । ६९ प्रमाणायावृत्त्येवाप्रमाणवस्य । ७० तस्माद्वास्तवो भेदः। ७१ भेदे खात्मान्तरवत्तदनुपपत्तेः। ७२ समवायेऽतिप्रसङ्गः। ७३ प्रमाणतदाभासौ दुष्टतयोद्भावितौ परिहृतापरिहृतदोषी वादिनः साधनतदाभासौ प्रतिवादिनो दूषणभूषणे च । .. ७४ संभवदन्यद्विचारणीयम् ।। परीक्षामुखमादर्श हेयोपादेयतत्त्वयोः । संविदे मादृशो बालः परीक्षादक्षवद्यधाम् ॥ १ ॥ इति परीक्षामुखसूत्रं समाप्तम् । ६७६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy