________________
परीक्षामुखसूत्रपाठः
॥ चतुर्थः परिच्छेदः ॥ १ सामान्यविशेषात्मा तदर्थो विषयः। २ अनुवृत्तव्यावृत्तप्रत्ययगोचरत्वात्पूर्वोत्तराकारपरिहारावाप्तिस्थितिलक्षण
परिणामेनार्थक्रियोपपत्तेश्च । ३ सामान्यं द्वधा, तिर्यगूर्वताभेदात् । ४ सदृशपरिणामस्तिर्यक् , खण्डमुण्डादिषु गोलवत् ।
४६० ५ परापरविवर्त्तव्यापिद्रव्यसूर्वता दिव स्थासादिघु ।
૪૮૮ ६ विशेषश्च ।
५२० ७ पर्यायव्यतिरेकभेदात् । ८ एकस्मिन्द्रव्ये क्रमभाविनः परिणामाः पर्याया आत्मनि हर्षविषादादिवत् ।, ९ अर्थान्तरगतो विसदृशपरिणामो व्यतिरेको गोमहिषादिवत् ।
५२४
॥पञ्चमः परिच्छेदः॥ १ अज्ञाननिवृत्तिानोपादानोपेक्षाश्च फलम् ।
६२४ २ प्रमाणादभिन्न भिन्नञ्च ।
६२४ ३ यः प्रमिमीते स एव निवृत्ताज्ञानो जहात्यादत्त उपेक्षते चेति प्रतीतेः । ६२६
॥ षष्ठः परिच्छेदः॥ १ ततोऽन्यत्तदाभासम् । २ अखसंविदितगृहीतार्थदर्शनसंशयादयः प्रमाणाभासाः । ३ स्वविषयोपदर्शकवाभावात् ।। ४ पुरुषान्तरपूर्वार्थगच्छत्तृणस्पर्शस्थाणुपुरुषादिज्ञानवत् । ५ चक्षुरसयोर्द्रव्ये संयुक्तसमवायवच्च । ६ अवैशये प्रत्यक्षं तदाभासं बौद्धस्याकस्मालूमदर्शनाद्वह्निविज्ञानवत् । ७ वैशद्येऽपि परोक्षं तदाभासं मीमांसकस्य करणज्ञानवत् । ८ अतस्मिंस्तदिति ज्ञानं स्मरणाभासम् , जिनदत्ते स देवदत्तो यथा । ९ सदृशे तदेवेदं तस्मिन्नेव तेन सदृशं यमलकवदित्यादि
प्रत्यभिज्ञानाभासम् ।। १० असम्बद्ध तज्ज्ञानं तर्काभासम् , यावाँस्तत्पुत्रः स श्यामो यथा। ११ इदमनुमानाभासम् । १२ तत्रानिष्टादिः पक्षाभासः। १३ अनिष्टो मीमांसकस्यानित्यः शब्दः। १४ सिद्धः श्रावणः शब्दः । १५ बाधितः प्रत्यक्षानुमानागमलोकखवचनैः। १६ अनुष्णोऽग्निद्रव्यत्वाजलवत् । १७ अपरिणामी शब्दः कृतकत्वात् घटवत् ।
१