________________
सू० ६७३]
सप्तभंगीविवेचनम्
निष्टौ प्रतिनियतस्वरूपोऽसंभवाद्वस्तुप्रतिनियमविरोधः स्यात् । एतेनै क्रमार्पितोभयंत्वादीनां वस्तुधर्मत्वं प्रतिपादितं प्रतिपत्तव्यम् । तद्भावे क्रमेण सदसत्त्वविकल्पशब्दव्यवहारविरोधात्, सहाऽवक्तव्यत्वोपलक्षितोत्तरधर्मत्रयविकल्पस्य शब्दव्यवहारस्य चासत्त्वप्रसङ्गात् । न चामी व्यवहारा निर्विषया एव; वस्तुप्र-५ तिपत्तिप्रवृत्तिप्रातिनिश्चयात् तथाविधरूपादिव्यवहारवत् ।
ननु च प्रथमद्वितीयधर्मवत् प्रथमतीयोदिया क्रमेतरार्पितानां धर्मान्तरत्वलिद्धेर्न लतविधधमनियमः लिज्येत् : इत्यायसुन्दरम् ; क्रमाप्तियोः प्रथमतृतीयधर्मयोः धर्मान्तरत्वेनाऽप्रतीतेः, सत्त्वद्वयस्यासम्भवाद्विवक्षितवरूपादिना सत्त्वस्यैकत्वात् ११० तदन्यस्वरूपादिना सत्त्वस्य द्वितीयस्य सम्भवे विशेषादेशात् तत्त्रतिपक्षभूतासत्त्वस्याप्यपरस्य सम्भवादपरधर्मसप्तकसिद्धिः(द्धेः) सप्तभयन्तरसिद्धितो न कश्चिदुपालम्भः। एतेन द्वितीयतृतीयधर्मयोः क्रमाप्तियोर्धर्मान्तरत्वमप्रातीतिक व्याख्यातम् । कथमेवं प्रथमचतुर्थयोर्द्वितीयेचतुर्थयोस्तृतीयेचतुर्थयोश्च सहितयोधर्मा-१५ न्तरत्वं स्यादिति चेत् ? चतुर्थेऽवक्तव्यत्वधर्मे सत्त्वासत्त्वयोरपरामर्शात् । न खलु सहार्पितयोस्तयोरवक्तव्यशब्देनाभिधानम् । किं तर्हि ? तथापितयोस्तयोः सर्वथा वक्तुमशक्तेरवक्तव्यत्वस्य धर्मान्तरस्य तेन प्रतिपादन मिष्यते । न च देव सहितस्य सत्त्वस्यासत्वस्योभयस्य वाऽप्रतीतिधर्मान्तरत्वासिद्धिा, प्रथमे भङ्गे २० सत्त्वस्य प्रधानभावेन प्रतीतेः, द्वितीये त्वसत्त्वस्य, तृतीये क्रमार्पितयोः सत्त्वासत्त्वयोः, चतुर्थे त्ववक्तव्यत्वस्य, पञ्चमे
१ परेण। २ पृथुबुनोदराद्याकारः सास्लादिमत्त्वादिा प्रतिनियतस्वरूपः । ३ सत्त्वासत्त्वयोर्वस्तुधर्मत्वसमर्थनपरेण ग्रन्थेन। ४ सहार्पितोभयत्वादीनां च । ५ अवक्तव्यं सदवक्तव्यमऽसदवक्तव्यमुभयाऽवक्तव्यं चेति । ६ ननु येभ्यः शब्दव्यवहारेभ्योऽन्यथानुपपत्त्या क्रमार्पितोभयत्वाद्वयः पञ्च धर्मा अवस्थाप्यन्ते ते निर्विषया एवातः कथं तेभ्यस्तत्सिद्धिरित्यारेकायामाह। ७ तथाविधः प्रतिपत्तिप्रवृत्तिमाप्तिनिश्चयहेतुभूतः। ८ तस्यापि निर्विषयत्वे सकलप्रत्यक्षादिव्यवहारापह्नवान्न कस्यचिदिष्टतत्त्वव्यवस्था स्यात् । ९ आदिना द्वितीयतृतीयादिग्रहः । १० युगपत् । ११ मनुष्यस्वरूपे स्वद्रव्यक्षेत्रकालभावाः स्वरूपम् , आदिना पररूपसंग्रहः, ते च यतः परकीया द्रव्यादयः। १२ एकजीवस्य । १३ तस्मात् । १४ अन्यस्य देवादेः। १५ भवान्तरापेक्षया। १६ पर्यायकथनात् । १७ सः द्वितीयसत्त्वः । १८ बसः। १९ प्रथमतृतीयधर्मयोधर्मान्तरत्वनिराकरणेन। २० इति। २१ प्रथमतृतीयादिप्रकारेण । २२ स्यादस्त्यवक्तव्यमिति । २३ स्यान्नास्त्यवक्तव्यमिति । २४ स्यादस्ति नास्त्यवक्तव्यमिति । २५ अप्रतीतेः ।