SearchBrowseAboutContactDonate
Page Preview
Page 844
Loading...
Download File
Download File
Page Text
________________ प्रबेयकमालमार्तण्डै [६. नयपरि० वा प्रस्थादिप्रतीति तद्विपरीतस्थाऽसतः सतो वा प्रोतुमशक्तः। ऋजुसूत्राश्रयणाद्वा पर्यायमात्रस्य प्रस्थादित्वेन प्रेतीतिः, अन्यथा प्रतीत्यनुपपत्तः । शब्दाश्रयणाद्वा कालादिभिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथातिप्रसङ्गात् । समभिरूढाश्रयणाई। पर्यायभेदेन ५ भिन्नस्यार्थस्य प्रस्थादित्वम्, अन्यथाऽतिप्रसङ्गात् । एवंभूताश्रय णाा प्रस्थादिक्रियापरिणतस्यैवार्थस्य प्रस्थादित्वं नान्यस्य अतिप्रसङ्गादिति । तथा स्यादुर्भयं क्रमार्पितोभयनयार्पणात् । स्यादवक्तव्यं सहार्पितोभयनयाश्रयणात् । एवमवक्तव्योत्तराः शेषास्त्रयो भङ्गा यथायोगमुदाहाः । १० ननु चोदाहृता नयसतमङ्गी । प्रमाणसप्तभङ्गीतस्तु तस्याः किङ्कतो विशेष इति चेत् ? 'सकलविकलादेशकृतः' इति ब्रूमः। विकलादेशसभावा हि नयसप्तभङ्गी वस्त्वंशमात्रप्ररूपकत्वात्। सकलादेशसभावा तु प्रमाणसप्तभङ्गी यथावद्वस्तुरूपप्ररूपकत्वात् । तथा हि-स्यादस्ति जीवादिवस्तु खद्रव्यादिचतुष्टयापे१५क्षया । स्यानास्ति परद्रव्यादिचतुष्टयापेक्षया। स्यादुभयं क्रमार्पि तद्वयापेक्षया । स्यादवक्तव्यं सहार्पितद्वयापेक्षया । एवमवक्तव्यो. त्तरास्त्रयो भङ्गाः प्रतिपत्तव्याः। कस्मात्पुनर्नयवाक्ये प्रमाणवाक्ये वा सप्तैव भङ्गाः सम्भव न्तीति चेत् ? प्रतिपाद्यप्रश्नानां तावतामेव सम्भवात् । प्रश्नवशा. २० देव हि सप्तभङ्गीनियमः। सप्तविध एव प्रश्नोपि कुत इति चेत् ? सप्तविधजिज्ञासासम्भवात् । सापि सप्तधा कुत इति चेत् ? सप्तधा संशयोत्पत्तेः। सोपि सप्तधा कथमिति चेत् ? तद्विषयवस्तुधर्मस्य सप्तविधत्वात् । तथा हि-सत्त्वं तावद्वस्तुधर्मः; तदन भ्युपगमे वस्तुनो वस्तुत्वायोगात् खरशङ्गवत् । तथा कथञ्चिद२५ सत्त्वं तद्धर्म एव; स्वरूपादिभिरिव पररूपादिभिरप्यस्याऽसत्त्वा. १ सङ्कल्पमात्रस्य प्रस्थादित्वेन ज्ञातुम् । २ प्रतिषेधकल्पना स्यात् । ३ सङ्कल्पमात्रेण । ४ प्रतिषेधकल्पनेति सम्बन्धः। ५ पटादेरपि प्रस्थादित्वं स्यात् । ६ प्रतिषेध. कल्पना । ७ संकल्पमात्रेण। ८ सङ्कल्पमात्रेण । ९ प्रतिषेधकल्पना। १० सङ्कल्पमात्रस्य। ११ एतावता स्यादस्ति स्यान्नास्तीति भङ्गद्वयं सिद्धम्। १२ प्रस्थादिः स्यादस्ति नास्ति च । १३ सह-युगपत् । १४ अपितः विवक्षितः । १५ प्रस्थादिः स्यादस्त्यवक्तव्यः, स्यान्नास्त्यवक्तव्यः, स्यादस्तिनास्त्यवक्तव्यश्चेति । १६ कथनात् । १७ नयप्रमाणसप्तभझ्या यथाक्रम मेदशानार्थमुल्लेखः कथ्यते स्यादस्ति स्यानास्तीत्यादिः । तथा च स्यादस्ति जीवादिवस्तु स्यान्नास्ति जीवादिवस्तु इत्यादि । १८ आदिना क्षेत्रकालभावग्रहः। १९ शातुमिच्छा जिज्ञासा । २० स्वरूपस्य । २१ परेणाङ्गीक्रियमाणे । २२ जीवादिपदार्थस्य । २३ अन्यथा।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy