________________
६८४
प्रमेयकमलमार्तण्डे [६. नयपरि० सत्त्वसहितस्य, बष्ठे पुनरसत्त्वोपेतस्य, सतो क्रमे क्रमवत्तदुभययुक्तस्य सकलजनैः सुप्रतीतत्वात्।। . ननु चावक्तव्यत्वस्य धर्मान्तरत्वे वस्तुनि वक्तव्यत्वस्याष्टमस्य धर्मान्तरस्य भावात्कथं सप्तविध एव धर्मः सप्तमङ्गीविषयः ५स्यात् ? इत्यप्यपेशलम् ; सत्त्वादिभिरभिधीयमानतया वक्तव्य स्वस्य प्रसिद्धः, सामान्येन वक्तव्यत्वस्यापि विशेषेण वक्तव्यतायामवस्थानात् । भवतु वा वक्तव्यत्वावक्तव्यत्वयोर्धर्मयोः प्रसिद्धिः। तथाप्याभ्यां विधिप्रतिषेधकल्पनाविषयाभ्यां सत्त्वासत्त्वाभ्यामिव सप्तभङ्ग्यन्तरस्य प्रवृत्तेर्न तद्विषयसप्तविधधर्मनियमव्या१० घातः, यतस्तद्विषयः संशयः सप्तधैव न स्यात् तँ तुर्जिज्ञासा वा
तन्निमित्तः प्रश्नो वा वस्तुन्येकत्र सप्तविधवाक्य नियमहेतुः। इत्युपपन्नेयम्-प्रश्नवशादेकवस्तुन्यविरोधेन विधिप्रतिषेधकल्पना सप्तमङ्गी । 'अविरोधेन' इत्यभिधानात् प्रत्यक्षादिविरुद्धविधिप्रतिषेधकल्पनायाः सप्तमझीरूपता प्रत्युक्ता, 'एकवस्तुनि' इत्यभि१५धानाञ्च अनेकवस्त्वाश्रयविधिप्रतिषेधकल्पनाया इति ।
अथवा प्रागुक्तश्चतुरङ्गो वादः पत्रावलम्वनमप्यपेक्षते, अतस्त. लक्षणमत्रावश्यमभिधातव्यम् यतो नास्याऽविज्ञातखरूपस्यावलम्वनं जयाय प्रभवतीति ब्रुवाणं प्रति सम्भवदित्याह । सम्भव द्विद्यमानमन्यत् पत्रलक्षणं विचारणीयं तद्विचारचतुरैः। तथाहि२० स्वाभिप्रेतार्थसाधनानवद्यगूढपदसमूहात्मकं प्रसिद्धावयवलक्षणं वाक्यं पत्रमित्यवगन्तव्यं तथाभूतस्यैवास्यं निर्दोपतोपपत्तेः। न खलु स्वाभिप्रेतार्थासाधकं दुष्टं सुस्पष्टपदात्मकं वा वाक्यं निर्दोष पत्रं युक्तमतिप्रसङ्गात् । न च क्रियापदादिगूढं काव्यमप्येवं
पत्रं प्रसज्यते प्रसिद्धावयवत्वविशिष्टस्यास्य पत्रत्वाभिधानात् । २५न हि पदगूढादिकाव्यं प्रमाणप्रसिद्धप्रतिज्ञाद्यवयवविशेषणतया किश्चित्प्रसिद्धम् , तस्य तथा प्रसिद्धौ पत्रव्यपदेशसिद्धेरवाधनात् ।
"प्रसिद्धावयवं वाक्यं खेटस्यार्थस्य साधकम् । साधु गूढपदप्रायं पत्रमाहुरनाकुलम् ॥” [पत्रप० पृ० १]
१ तदुभयं सत्त्वासत्त्वम् । २ आदिना ह्यसत्त्वं सत्त्वासत्त्वे च संगृह्यते । ३ वस्तुनः। ४ सदादिभङ्गत्रयरूपेण संघटते इत्यादिप्रकारेण । ५ कल्पना भेदः । ६ यथा स्यादस्ति स्यान्नास्तीत्यादि तथा स्याद्वक्तव्यं स्यादवक्तव्यं स्याद्वक्तव्यावक्तव्यमित्यादिप्रकारेण । ७ बसः। ८ परीक्षामुखे। ९ पत्रस्य । १० अपशब्दबहुलम् । ११ काव्यादेरपि पत्रत्वप्रसङ्गात् । १२ अबाधितम् ।