SearchBrowseAboutContactDonate
Page Preview
Page 834
Loading...
Download File
Download File
Page Text
________________ ६७२ प्रमेयकमलमार्तण्डे [५. तदाभासपरि० त्रिरूपलिङ्गस्याङ्गं समर्थनम् विपक्षे बाधकप्रमाणदर्शनरूपम. तस्याऽवचनं वादिनो निग्रहस्थानम्" [वादन्यायपृ०५-६) इति । तत्पश्चावयवप्रयोगवादिनोपि समानम्-शक्यं हि तेनाप्येवं वक्तुम्-सिद्धङ्गस्य पञ्चावयवप्रयोगस्यावचनात्सौगतस्य वादिनो ५ निग्रहः । न चास्य तदवचनेपि न निग्रहः, प्रतिज्ञानिगमनयोः 'पक्षधर्मोपसंहारस्य सामर्थ्यागम्यमानत्वात् । गम्यमानयोश्च वचने पुनरुक्तत्वानुषङ्गात्। ननुतत्प्रयोगेपि हेतुप्रयोगमन्तरेण साध्यार्थाप्रसिद्धिः; इत्यप्यपेशलम् ; पक्षधर्मोपसंहारस्याप्येवैमवचनानुषङ्गात् । अथ सामर्थ्यागम्यमानस्यापि 'यत्सत्तत्सर्वे क्षणिकं यथा घटः संश्च शब्दः' इति पक्षधोपसंहारस्य वचनं हेतोरपक्षधमत्वेनासिद्धत्वव्यवच्छेदार्थम् ; तर्हि साध्याधारसन्देहापनोदार्थ गम्यमानस्यापि पक्षस्य निगमनस्य च पक्षहेतूदाहरणोपनयानामेकार्थत्वप्रदर्शनार्थ वचनं किन्न स्यात् ? न हि पक्षादीनामेकार्थत्वोपदर्शनमन्तरेण सङ्गतत्वं घटते; भिन्नविषयपक्षादिवत् । १५ ननु प्रतिज्ञातः साध्यसिद्धौ हेत्वादिवचनमनर्थकमेव स्यात्, 'अन्यथा नास्याः साधनाङ्गतेति चेत्, तर्हि भव॑तोपि हेतुतः साध्यसिद्धौ दृष्टान्तोनर्थकः स्यात्, अन्यथा नास्य साधनाङ्गतेति समानम् । ननु साध्यसाधनयोव्याप्तिप्रदर्शनार्थत्वाद् दृष्टान्तो नानर्थकः तत्र तदप्रदर्शने हेतोरगमकत्वात् । इत्यप्यसङ्गतम् ; सर्वानित्यत्व२० साधने सत्त्वादेदृष्टान्ताऽसम्भवतोऽगमकत्वानुषङ्गात् । विपक्षव्या वृत्त्या सत्वादेर्गमकत्वे वा सर्वत्रापि हेतौ तथैव गमकत्वप्रसङ्गाद दृष्टान्तोनर्थक एव स्यात् । विपक्षव्यावृत्त्या च हेतुं समर्थयन् कथं प्रतिज्ञा प्रतिक्षिपेत् ? तस्याश्वानभिधाने क्व हेतुः साध्यं वा वर्त्तत ? गम्यमाने प्रतिज्ञाविषये एवेति चेत्, तर्हि गम्यमानस्यैव २५ हेतोरपि समर्थनं स्यान्न तूक्तस्य । अथ गम्यमानस्यापि हेतोर्मन्मतिप्रतिपत्त्यर्थ वचनम् ; तथा प्रतिज्ञावचने कोऽपरितोषः ? यच्चेदम्-'असाधनाङ्गम्' इत्यस्य व्याख्यान्तरम्-“साधम्र्येण हेतोर्वचने वैधय॑वचनं वैधम्र्येण वा प्रयोगे साधर्म्यवचनं गम्यमानत्वात् पुनरुक्तम् । अतो न साधनाङ्गम् ।" [ वादन्यायपृ० ३०६५] इत्यप्यसाम्प्रतम् । यतः सम्यक्साधनसामर्थेन स्वपक्षं साधयतो वादिनो निग्रहः स्यात् , अप्रसाधयतो वा? प्रथमपक्षे कथं १ व्याख्यानम् । २ योगस्य । ३ सौगतमतमालम्ब्याचार्येणोच्यते । ४ प्रतिज्ञानिगमनप्रकारेण । ५ व्यतिरेकेण । ६ सौगतस्य । ७ हेतुतः साध्यसिद्धिर्न भवतीति चेत् । ८ साध्यस्याऽशापको भवति हेतुरिति भावः। ९ विपक्षोत्र नित्यः । १० सौगतः। ११ प्रतिपादनम् । १२ हेतोर्वचने। १३ प्रतिपादनम् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy