SearchBrowseAboutContactDonate
Page Preview
Page 833
Loading...
Download File
Download File
Page Text
________________ सू० ६।७३] जय-पराजयव्यवस्था ६७१ त्यम्' इति व्याप्तौ यत्तद्वचनम्, वृतिपदप्रयोगादेव चार्थप्रतिपत्तौ वाक्यप्रयोगः अधिकत्वान्निग्रहस्थानं न स्यात् ? तथाविधस्याप्यस्य प्रतिपत्तिविशेषोपायत्वात्तवेति चेत् : कथमनेकल्य हेतोदृष्टान्तस्य वा तदुपायभूतस्य वचनं निग्रहाधिकरणम् ? निरर्थकस्य तु वचनं निरर्थकत्वादेव निग्रहस्थानं नाधिकत्वादिति । ५ _ "सिद्धान्तमभ्युपेत्यानियमात्कथाप्रसङ्गोऽपसिद्धान्तः।” न्यायसू० ५।२।२३] प्रतिज्ञातार्थ परित्यागान्निग्रहस्थानम् ! यथा नित्यानऽभ्युपेत्य शब्दादीन् हुनर नित्यान् ब्रूते । इत्यपि प्रतिवादिनः प्रतिपक्षसाधने सत्येव निग्रहस्थानं नान्यथा। ___ "हेत्वाभासाश्च यथोक्ताः।" [न्यायसू० ५।२।२४] असिद्धवि-१० रुद्धानकान्तिककालात्ययापदिष्टप्रकरणसमा निग्रहस्थानम् । इत्यत्रापि विरुद्धहेतूद्धावने प्रतिपक्षसिद्धेर्निग्रहाधिकरणत्वं युक्तम् । असिद्धाधुद्भावने तु प्रतिवादिना प्रतिपक्षसाधने कृते तद्युक्तं नान्यथेति । एतेनासाधनाङ्गवचनादि निग्रहस्थानं प्रत्युक्तम् ; एकस्य स्वए-१५ क्षसियैवान्यस्य निग्रहप्रसिद्धः । ततः स्थितमेतत्"वपक्षसिद्धेरेकस्य निग्रहोन्यस्य वादिनः। नासाधनाङ्गवचनमदोषोद्भावनं द्वयोः॥"[ ] इति । इदं चानवस्थितम्"असाधनाङ्गवचनमदोषोद्भावनं द्वयोः। निग्रहस्थानमन्यत्तु न युक्त मिति नेष्यते ॥” [ वादन्यापृ० १] इति। अत्र हि स्वपक्षं साधयन् वादिप्रतिवादिनोरन्यतरोऽसाधना. ङ्गवचनादऽदोषोद्भावनाद्वा परं निगृह्णाति, असाधयन्वा ? प्रथमपक्षे खपक्षसियैवास्य पराजयादन्योद्भावनं व्यर्थम् । द्वितीयपक्षे तु असाधनाङ्गवचनाद्युद्भावनेपि न कस्यचिजयः पक्षसिद्धरुभयोर-२५ भावात् । यच्चास्य व्याख्यानम्-"साधनं सिद्धिः तदङ्गं त्रिरूपं लिङ्गम् , तस्याऽवचनं तूष्णींभावो यत्किञ्चिद्भाषणं वा। साधनस्य वा १ समासोत्र वृत्तिः। २ स्यादेव। ३ अधिकत्वान्निग्रहस्थानत्वं कः कारयेत्तद्वचनस्य । ४ निरर्थकत्वान्निग्रहस्थानं भविष्यतीत्युक्ते सत्याह । ५ स्वीकृतागमविरुद्धअसाधनमपसिद्धान्तो नाम निग्रहस्थानम् । ६ प्रतिपक्षसिध्यभावे । ७ सौगतमतमेतत् । ८ आदिना अदोषोद्भावनादि । ९ वादिप्रतिवादिनोः। १० एतदीयं व्याख्यानमस्त्यग्रे। ११ असाधनाङ्गवचनं वादिन एव निग्रहस्थानमदोषोद्भावनं तु प्रतिवादिन । एवेति द्वयोरिति पदमुक्तम् । १२ हेतोः। १३ अन्यस्य दोषस्य ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy