________________
सू० ६।७३] जय-पराजयव्यवस्था ६७३ साध्यसिद्ध्यऽप्रतिवन्धिवचनाधिक्योपलम्भमात्रेणास्य निग्रहो विरोधात् ? नन्वेवं नाटकादिघोषणातोप्यस्य निग्रहो न स्यात् सत्यमेवैतत् स्वसाध्यं प्रसाध्य नृत्यतोपि दोपामावाल्लोकवत् । अन्यथा ताम्बूलभक्षणभृक्षेपलात्कृताकस्पहत्तास्फालनादिभ्योपि सत्यसाधनवादिनो निग्रहः स्यात् । अथ स्वपक्षमप्रसाधयतोस्य५ निग्रहः, नन्वत्रापि किं प्रतिवादिना स्वपक्षे साधिले वादिनो वचनाधिक्योपलम्भान्निग्रहो लक्ष्येत, अलाधिदे का? प्रथमविकल्पे स्वपक्षसिधैवात्य लिग्रहाचदाधियोद्भावनमनर्थकम् , तस्मिन् सत्यपि स्वपक्षसिद्धिमन्तरेण जयायोगात् । द्वितीयपक्षे तु युगपद्वादिप्रतिवादिनोः पराजयप्रसङ्गो जयप्रसङ्गो वा स्यात्स्व-१० पक्षसिद्धेरभावाविशेषात् ।
ननु न स्वपक्षसिद्ध्यसिद्धिनिवन्धनौ जयपराजयौ तयोर्शानाशाननिवन्धनत्वात । साधनवादिना हि साधु साधनं ज्ञात्वा वक्तव्यं दूषणवादिना च तद्रूपणम् । तत्र साधर्म्यवचनाद्वैधर्म्यवचनाद्वाऽ. र्थस्य प्रतिपत्तौ तदुभयवचने वादिनः प्रतिवादिना सभायामसा-१५ धनाङ्गवचनस्योद्भावनात् साधुसाधनाभिधानाज्ञानसिद्धेः परा. जयः, प्रतिवादिनस्तु तद्पणज्ञाननिर्णयाजयः स्यात् ; इत्यप्यवि. चारितरमणीयम् । विकल्पानुपपत्तेः । स हि प्रतिवादी निदोषसाधनवादिनो वचनाधिक्यमुद्भावयेत्, साधनाभासवादिनो वा? तत्राद्यविकल्पे वादिनः कथं साधुसाधनाभिधानाऽज्ञानम् ,२० तद्वचनेयत्ताज्ञानस्यैवासम्भवात् ? द्वितीयविकल्पे तु न प्रतिवादिनो दूषणशानमवतिष्टते साधनाभासस्यानुद्भावनात् । तद्वचना. धिक्यदोषस्य ज्ञानाढूषणशोसाविति चेत् ; साधनाभासाज्ञानादूपणज्ञोपीति नैकान्ततो वादिनं जयेत्, तददोषोद्भावनलक्षणस्य पराजयस्यापि निवारयितुमशक्तेः । अथ वचनाधिक्यदोपोद्भाव-२५ नादेव प्रतिवादिनो जयसिद्धौ साधनाभासोद्भावनमनर्थकम् ; नन्वेवं साधनाभासानुद्भावनात्तस्य पराजयसिद्धौ वचनाधिक्योद्भावनं कथं जयाय प्रकल्प्येत? अथ वचनाधिक्यं साधनाभासं चोद्भावयतः प्रतिवादिनो जयः; कथमेवं साधर्म्यवचने वैधर्म्यवचनं तद्वचने वा साधर्म्यवचनं जयाय प्रभवेत् ?
१ सम्यक्साध्यसिद्धिश्चेन्निग्रहः कथं निग्रहश्चेत्सा कथमिति विरोधः। २ साध्यसिद्धयप्रतिबन्धिवचनाधिक्यमात्रतोपि न निग्रह इति प्रकारेण। ३ साधनदूषणं ज्ञात्वा वक्तव्यम् । ४ साध्यलक्षणस्य । ५ एतावत्परिमाणेन साधुसाधनं वाच्यमिति ज्ञानस्य । ६ सर्वथा। ७ ततश्च जयायैवोभयवचनम् ।
प्र. क. मा० ५७