SearchBrowseAboutContactDonate
Page Preview
Page 829
Loading...
Download File
Download File
Page Text
________________ सू० ६७३] जय-पराजयव्यवस्था ६६७ तयोरज्ञानं नाविज्ञातार्थ वर्णक्रमनिर्देशवत् । ततो नेदमभि(वि) ज्ञातार्थ निरर्थकाद्भिद्यते इति । “पौर्वापर्यायोगादप्रतिसम्वद्धार्थमपार्शकम् ।" न्यायसू० ५। २१०] यथा दश दाडिमानि पडयूपाः कुण्डमजाऽजिनं पललपिण्डः। इत्यपि निरर्थकान भिद्यते यथैव हि जवगडश्यादौ वर्णानां नैरर्थक्यं तथान पदानादिति । यदि दुलः पदनरर्थक्यं वर्णनैरर्थक्यादन्यत्वान्निग्रहस्थानान्तरमभ्युपगम्यते; तर्हि वाक्यनरर्थक्यस्याप्याभ्यामन्यत्वान्निग्रहस्थानान्तरत्वं स्यात् । पदव पोमिदैणा(ण)प्रयुज्यमानानां वाक्यानामप्यनेकधोपलन्मात् । २० "शङ्ख कदल्यां कदली च भेर्या तस्यां च भेया सुमहद्विमानम् ! तच्छङ्कमेरीकदलीविमानमुन्मत्तमङ्गप्रतिमं बलूव॥"[ ] इत्यादिवत् । यदि पुनः पदनैरर्थक्यमेव वाक्यनरर्थक्यं पद्समुदायात्मकत्वात्तस्य; तर्हि वर्णनैरर्थक्यमेव पद्नैरर्थक्यं स्याहर्णसमुदायात्मकत्वात्तस्य । वर्णानां सर्वत्र निरर्थकत्वात्पद-१७ स्यापि तत्प्रसङ्गश्चेत्तर्हि पदस्थापि निरर्थकत्वात् तत्समुदायास्मनो वाक्यस्यापि नैरर्थक्यानुषङ्गः। पदार्थापेक्षया पदस्यार्थवत्त्वे वार्थापेक्षया वर्णस्यापि तदस्तु प्रकृतिप्रत्ययादिवर्णवत् । न खलु प्रकृतिः केवला पदं प्रत्ययो वा, नाप्यनयोरनर्थकत्वम् । अभिव्यक्तार्थाभावादनर्थकत्वे पदस्थापि तत्स्यात् । यथैव हि प्रकृत्यर्थः२० प्रत्ययेनाभिव्यज्यते प्रत्ययार्थश्च प्रकृत्या तयोः केवलयोरप्रयोगात्, तथा 'देवदत्तस्तिष्ठति' इत्यादिप्रयोगे सुवन्त पदार्थस्य तिङन्तपदेन तिङन्तपदार्थस्य च सुबन्तपदेनाभिव्यक्तेः केवलँस्याप्रयोगः । पदान्तरापेक्षस्य पदस्य सार्थकत्वं प्रकृत्यपेक्षस्य प्रत्ययस्य तदपेक्षस्य च प्रकृत्यादिवर्णस्य समानमिति । "अवयवविपर्यासवचनमप्राप्तकालम् ।" [न्यायसू० ५।२।११] अवयवानां प्रतिज्ञादीनां विपर्यासेनाभिधानमप्राप्तकालं नाम निग्रहस्थानम् । इत्यप्यपेशलम् । प्रेक्षावतां प्रतिपत्तॄणामवयवक्रमनियम विनाप्यर्थप्रतिपत्त्युपलम्भादेवदत्तादिवाक्यवत्। ननु यथापशब्दा १ पूर्वापराऽसङ्गतपदकदम्बकोच्चारणादप्रतिष्ठितवाक्यार्थमपार्थकं नाम निग्रहस्थानम्। २ उन्मत्ता गङ्गा यस्मिन्प्रदेशेऽसावुन्मत्तगङ्गः। ३ वाक्ये पदे च। ४ प्रकृत्यादावपि पदानामेवार्थवत्त्वं न पुनर्वर्णानां येन दृष्टान्तः सिद्धः स्यादित्युक्ते सत्याह । ५ वर्णस्य । ६ पदस्य । ७ सार्थकत्वम् । ८ यथाक्रमोल्लङ्घनेन प्रयुज्यमानमनुमानवाक्यम् । ९ अप्राप्तावसरम् । १० देवदत्त गामभ्याज शुक्लां दण्डेनेत्यादिवत् ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy