________________
६६८
प्रमेयकमलमार्तण्डे । ५. तदाभासपरि० च्छुताच्छब्दस्मरणं ततोऽर्थप्रत्यय इति शब्दादेवार्थप्रत्ययः परम्प. रया तथा प्रतिज्ञाद्यवयवव्युत्क्रमात् तत्क्रमस्मरणं ततो वाक्यार्थप्रत्ययो न तद्युत्क्रमात्, इत्यप्यसारम् ; एवंविधप्रतीत्यभावात् । यस्माद्धि शब्दादुच्चरिताद्यत्राथै प्रतीतिः स एव तस्य वाचको ५नान्यः, अन्यथा 'शब्दात्तत्क्रमाञ्चापशब्दे तद्युत्क्रमे च स्मरणं ततोऽर्थप्रतीतिः' इत्यपि वक्तुं शक्येत । एवं शब्दाद्यन्वाख्यानवैयर्थ्य चेत् ;न; एवं वादिनोऽनिष्टमात्रापादनात् , अपशब्देपि चान्वाख्यानस्योपलम्भात् । 'संस्कृताच्छब्दात्सत्याद्धर्मोन्यस्मादऽधर्मः' इति नियमे चान्यधर्माधर्मोपायानुष्ठानवैयर्थ्यम् । धर्माधर्मयोश्चाप्रति१० नियमप्रसङ्गः, अधार्मिके धार्मिके च तच्छब्दोपलम्भात् । भवतु
वा तत्क्रमादर्थप्रतीतिः, तथाप्यर्थप्रत्ययः क्रमेण स्थितो येन वाक्योन व्युत्क्रम्यते तन्निरर्थकं न त्वऽप्राप्तकालमिति ।
"शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् ।” [ न्यायसू० ५।२।१४] तत्रार्थपुनरुक्तमेवोपपन्नं न शब्दपुनरुक्तम् । अर्थभेदे १५शब्दसाम्येप्यस्याऽसम्भवात्
"हसति हसति स्वामिन्युच्चैरुदत्यतिरोदिति,
कृतपरिकरं स्वेदोद्गोरि प्रधावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति, धनलवपरिक्रीतं यत्रं प्रनृत्यति नृत्यति ।”
[वादन्यायपृ० १११] इत्यादिवत् । ततः स्वेष्टार्थवाचकैस्तैरेवान्यैर्वा शब्दैः सत्याः प्रतिपादनीयाः । तत्प्रतिपादकशब्दानां तु संकृत्पुनः पुनर्वाभिधानं निरर्थकं न तु पुनरुक्तम् । यद्य(द)प्यादापनस्य स्वशब्देन पुनर्वचनं पुनरुक्तमुक्तम् । यथा 'उत्पत्तिधर्मकम नित्यम्' २५ इत्युक्त्वाऽर्थादापन्नस्यार्थस्य योऽभिधायकः शब्दस्तेन स्वशब्देन
ब्रूयात् 'नित्यमनुत्पत्तिधर्मकम्' इति । तदपि प्रतिपन्नार्थप्रतिपादकत्वेन वैयर्थ्यान्निग्रहस्थानं नान्यथा । तथा चेदं निरर्थकान्न विशेष्येतेति।
१ सत्यशब्दस्य । २ स्मृतशब्दात् । ३ विपर्ययात् । ४ स्मृतक्रमात् । ५ स्मृतापशब्दात्स्मृततत्क्रमात् । ६ शब्दादेरपशब्दादिस्मरणप्रकारेण । ७ पुनः पुनः कथनमन्वाख्यानम् । ८ संस्कृताच्छन्दाद्धर्मोऽन्यसादधर्म इति नियमानापशब्देऽन्वाख्यापनमस्तीत्युक्ते सत्याह। ९ इज्याऽध्ययनादिरन्यः। १० सति । ११ क्रियाविशेषणम् । १२ क्रियाविशेषणम् । १३ मौल्येन सङ्ग्रहीतम्। १४ यत्रमिव यत्रं भृत्यः । १५ शब्दपौनरुक्त्यमुपपन्नं न भवेद्यतः। १६ प्रथमोच्चारितैः। १७ कथनानन्तरमेकवारम् । १८ अर्थस्य । १९ पुनरुक्तत्वप्रकारेण ।