________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि० प्रकृतं हेतु' प्रमाणसामर्थ्येनोहमसमर्थः समर्थयितु मित्यवस्यन्नपि कैथामपरित्यजन्नर्थान्तरमुपन्यस्यति-नित्यः शब्दोऽस्पर्शवत्त्वादिति हेतुः । हेतुश्च हिनोतेर्धातोस्तुप्रत्यये कृदन्तं पदम्, [पदं]च नामाख्यातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे । ५ तदेतदप्यर्थान्तरं निग्रहस्थानं समर्थे साधने दूषणे वा प्रोक्ते निग्रहाय कल्प्येत, असमर्थ वा ? न तावत्समर्थे; स्वसाध्यं प्रसाध्य नृत्यतोपि दोषाभावाल्लोकवत् । असमर्थेपि प्रतिवादिनः पक्षसिद्धौ तन्निग्रहाय स्यात्, असिद्धौ वा ? प्रथमपक्षे तत्पक्षसिद्ध्यैवास्य निग्रहो न त्वतो निग्रहस्थानात् । द्वितीयपक्षेप्यतो न निग्रहः पक्ष१० सिद्धरुभयोरप्यभावादिति ।। ___ "वर्णक्रमनिर्देशवनिरर्थकम् ।" [न्यायसू० ५।२।८] यथाऽनित्यः शब्दो जबगडदश्त्वात् झमघढधष्वत् । इत्यपि सर्वथार्थशून्यत्वान्निग्रहाय कल्प्येत, साध्यानुपयोगाद्वा? तत्राद्यविकल्पोऽ
युक्तः, सर्वथार्थशून्यस्य शब्दस्यैवासम्भवात् । वर्णक्रमनिर्देशस्या१५प्य कार्येणार्थनार्थवत्त्वोपपत्तेः। द्वितीयविकल्पे तु सर्वमेव निग्रह
स्थानं निरर्थकं स्यात्; साध्यसिद्धावनुपयोगित्वाविशेषात् । केनचिद्विशेषमात्रेण भेदे वा खात्कृताकम्पहस्तास्फालनकक्षापिट्टिकादेरपि साध्यसिध्यनुपयोगिनो निग्रहस्थानान्तरत्वानुषङ्ग इति ।
"परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञीतार्थम् ।” २०[न्यायसू० ५।२।९] अत्रेदमुच्यते-वादिना त्रिरभिहितमपि वाक्यं परिषत्प्रतिवादिभ्यां मन्दमतित्वादविज्ञातम् , गूढाभिधानतो वा, द्रुतोच्चाराद्वा? प्रथमपक्षे सत्साधनवादिनोप्येतन्निग्रहस्थानं स्यात्, तत्राप्यनयोर्मन्दमतित्वेनाविज्ञातत्वसम्भवात् । द्वितीयपक्षे तु
पत्रवाक्यप्रयोगेपि तत्प्रसङ्गो गूढाभिधानतया परिषत्प्रतिवादि२५ नोर्महाप्राशयोरप्यविज्ञातत्वोपलम्भात् । अथाभ्यामविज्ञातमप्येतद्वादी व्याचष्टे, गूढोपन्यासमप्यात्मनः स एव व्याचष्टाम् । अव्याख्याने तु जयाभाव एवास्य न पुनर्निग्रहः, परस्य पक्षसिद्धे. रभावात् । द्रुतोञ्चारेपि अनयोः कथञ्चित् ज्ञानं सम्भवत्येव सिद्धान्तद्वयवेदित्वात् । साध्यानुपयोगिनि तु वादिनः प्रलापमात्रे
१ अस्पर्शवत्वादिति । २ वादी । ३ वादम् । ४ प्रकृतार्थ परित्यज्यान्यमर्थ ब्रूते इत्यर्थः । ५ तस्य वादिनः। ६ वादिप्रतिवादिनोः । ७ अर्थरहितशब्दोच्चारणं निरर्थक नाम निग्रहस्थानम् । ८ पश्चास्क्रियमाणेन। ९ निरर्थकत्वान्निग्रहस्थानानाम् । १० वादिना। ११ वादिना त्रिरुपन्यस्तमपि परिषत्प्रतिवादिभ्यामविशातमविद्याताई नाम निग्रहस्थानं वादिनः । प्रतिवादिनोप्येवम् । १२ तार्यम् ।