SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ सू० ६१७३] जय-पराजयव्यवस्था ६६५ णामप्यनुषङ्गः स्यात् । तेषां तंत्रान्तर्भाव वा प्रतिज्ञान्तरस्यापि प्रतिज्ञाहानावन्तर्भावः स्यादिति । "प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः" त्यायनु० ५।२।४ ] यथा गुणव्यतिरिक्तं द्रव्यं रूपादिभ्यो भेदेनानुपलब्धेः । इत्यप्यसुन्दरम् ; यतो हेतुना प्रतिज्ञायाः प्रतिज्ञात्वे निरस्ते प्रकारान्तरतः५ प्रतिज्ञाहानिरवेयमुक्ता स्यात् , हेतुदोषो कार विरुद्धतालक्षणः, न प्रतिज्ञादोष इति। "पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासंन्यास न्यायसू० ५।२।५] यथा 'अनित्यः शब्द ऐन्द्रियिकत्वाद् घटवत् इत्युक्ते पूर्ववत्सामान्येनानैकान्तिकत्वे हेतोरुद्भाविते प्रतिज्ञा-१० संन्यासं करोति-क एवमाह 'नित्यः(अनित्यः)शब्दः'? इत्यपि प्रतिज्ञाहानितो न भिधेत हेतोरनैकान्तिकत्वोपलम्भेनानापि प्रतिज्ञायाः परित्यागाविशेषादिति । "अविशेषोक्ते हेतौ प्रतिषिद्धे विशेष मिच्छतो हेत्वन्तरम् । [ न्यायसू० ५।२६] निदर्शनम्-'एकप्रकृतीदं व्यक्तं विकाराणां १५ परिमाणान्मृत्पूर्वकघटशरावोदञ्चनादिवत्' इत्यस्य व्यभिचारेण प्रत्यवस्थानम्-नानाप्रकृतीनामेकप्रकृतीनां दृष्टं परिमाणमित्यस्य हेतोरहेतुत्वं निश्चित्य 'एकप्रकृतिसमन्वये विकाराणां परिमाणात्' इत्याह । तदिदमविशेषोक्ते हेतौ प्रतिषिद्धे विशेषं ब्रुक्तो हेत्वन्तरं नाम निग्रहस्थानम् । इत्यप्यसुन्दरम्; एवं सत्यविशेषोक्ते दृष्टान्तोपनयनिगमने प्रतिषिद्धे विशेष मिच्छतो दृष्टान्ताद्यन्तरमपि निग्रहस्थानान्तरमनुषज्येत तत्राक्षेपसमाधानानां समानत्वादिति।। "प्रकृतादर्थादप्रतिसम्बन्धार्थमर्थान्तरम्।" [न्यायसू० ५।२।७] यथोक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां२५ १ प्रतिशाहान्यादौ । २ यत्र प्रतिज्ञा विरुध्यते हेतुना हेतुर्वा प्रतिज्ञया विरुध्यते स प्रतिशाविरोधः। ३ उक्तहेतौ दूषणोद्भावने स्वसाध्यपरित्यागः प्रतिशासन्न्यासः । ४ वादिना। ५ त्यागम् । ६ अविशेषोक्त हेतौ व्यभिचारेण प्रतिषिद्धे पश्चादिशेषणोपादानं हेत्वन्तरम् । ७ प्रतिवादिना। ८ प्रधानम् । ९ महदादिकार्यम् । १० वस्तुभेदानाम् । ११ वादिनोक्तानुमानस्य । १२ घटमुकुटपटलकुटशकादीनाम् । १३ एककारणानुस्यूतत्वे सतीत्यर्थः । १४ वादी । १५ दृष्टान्ताद्यन्तरं निग्रहस्थानं न स्यान्चेद्धत्वन्तरमपि निग्रहस्थानं मा भूदिति । १६ प्रकृतप्रमेयानुपयोगिवचनमर्थान्तरं नाम निग्रहस्थानम् । १७ वस्तुधर्मावेकाधिकरणावित्यादि ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy