________________
प्रमेयकमलमार्तण्डे [५. तदाभासपरि०
तायां जातौ साधनामारवादी स्वप्रयुक्तसाधनदोष पश्यन् समा. यामेवं ब्रूयात् 'मया प्रयुक्त साधनेऽयं दोषःस चानेन नोद्भावितः, जातिस्तु प्रयुक्ता' इति तदा तावजातिवादिनो न जयः प्रयोजनम् ; उसयोरज्ञान सिद्धेः। नापि साम्यम् ; सर्वथा जयस्यासम्भवे ५ तस्याभिप्रेतत्वात् “ऐकान्तिकं पराजयाद्वरं सन्देहः"[ ] इत्यभिधानात् । तदप्रयोगेपि चैतत्समानम्-पूर्वपक्षवादिनो हि साधनाभासाभिधाने प्रतिवादिनश्च तूष्णींभावे यत्किञ्चिदभिधाने वा द्वयोरज्ञानप्रसिद्धितः प्राश्निकैः साम्यव्यवस्थापनात् । यदा च
साधनाभासवादी खसाधने दोषं प्रच्छाद्य परप्रयुक्तां जातिमेवो. १०द्भावयति तदा न तद्वादिनो जयः साम्यं वा प्रयोजनम् । पराजय
स्यैव सम्भवात् । __ अथा साधनाभासमेतदित्यप्रतिपाद्य जातिं प्रयुङ्क्ते; तथाप्यफलस्तत्प्रयोगः प्रोक्तदोषानुषङ्गात् । सम्यक्साधने तु प्रयुक्त तत्प्रयोगः पराजयायैव । अथ तूष्णींभावे पराजयोऽवश्यंभावी, तत्प्रयोगे तु १५ कदाचिदसदुत्तरेणापि निरुत्तरः स्यात् इत्यैकान्तिक पराजयाद्वरं
सन्देह इत्यसौ युक्त एवेति चेत् ; न; तथाप्यैकान्तिकपराजयस्यानिवार्यत्वात् । यथैव ह्युत्तरपेक्षवादिनस्तूष्णींभावे सत्युत्तराऽ. प्रतिपत्त्या पराजयः प्राश्निकैर्व्यवस्थाप्यते तथा जातिप्रयोगेप्यु
तराप्रतिपत्तेरविशेषात् , तत्प्रयोगस्यासदुत्तरत्वेनानुत्तरत्वात् । २० ननु चास्य पराजयस्तैर्व्यवस्थाप्येत यद्युत्तराभासत्वं पूर्वपक्षवायुद्भावयेत्, अन्यथा पर्यनुयोज्योपेक्षणात्तस्यैव पराजयः स्यात् । नन्वेवमुत्तराभासस्योत्तरपक्षवादिनोपन्यासेपि अपरस्योद्भावनशत्यशक्यपेक्षया जयपराजयव्यवस्थायामनवस्था स्यात् । न खलु
जातिवादिवदस्यापि तूष्णीभावः सम्भवति, सम्यगुत्तराप्रतिपत्ता२५ वपि उत्तराभासस्योपन्याससम्भवात् । ततश्चोपन्यस्तजातिस्वरूपस्यातोऽन्यस्य चोद्भावनेपि उत्तरपक्षवादिनस्तत्परिहारे शक्तिमशक्ति चापेक्ष्यैव पूर्वपक्षवादिनो जयः पराजयो वा व्यवस्थाप्येत जातिवादिन इवेतरस्योद्भावनशत्यशक्यपेक्ष इति ।
जातिलक्षणासदुत्तरप्रयोगादेव तत्परिहाराशक्तिनिश्चयात् पुनरु३० पन्याँसवैफल्ये सत्साधनाभिधानादेवोत्तराभासत्वोद्भावनशक्तेरप्यवसायाद् इतरस्यापि कथं तद्वैफल्यं न स्यात् ? सत्साधनाभिधानात्तदभिधानसामर्थ्यमेवास्यावसीयते न परोपन्यस्तजात्युद्भा.
-
१ पराजयायैव न जयायेति । २ वादिना। ३ प्रतिवादिनः। ४ जातिवादिनः ५ त्वया. जातिः प्रयुक्तेति वचनीयं तस्योपेक्षणात् । ६ तस्य उद्भावितस्य। ७ उपन्यास हि जातेः। ८ निश्चयात् । ९ तस्य जात्युद्भावनस।