SearchBrowseAboutContactDonate
Page Preview
Page 821
Loading...
Download File
Download File
Page Text
________________ सू० ६।७३] जय-पराजयव्यवस्था ६५९ "शब्दाऽनित्यत्वोक्तौ नित्यत्वप्रत्यवस्थितिनित्यसमा जातिः।" [ न्यायसू० ५।१॥३५? ] तद्यथा-'अनित्यः शब्दः' इत्युक्ते परः प्रत्यवतिष्ठते-शब्दाश्रयमनित्यत्वं किं नित्यम् , अनित्यं वा? यदि नित्यम्, तर्हि शब्दोपि नित्यः स्यात्, अन्यथात्य तदाधारत्वं न स्यात् । अथानित्यम् । तथाप्ययमेव दोषः-अनित्यत्वस्याऽ-५ नित्यत्वे हि शब्दस्य नित्यत्वमेव स्यात् । __ दूषणामासत्वं चाल्या प्रकृतलानाऽप्रतिबन्धित्वात् । प्रादुभूतस्य हि पदार्थस्य अवंलोऽनित्यत्वमुच्यते, तस्य प्रतिज्ञाने प्रतिषेधविरोधः । स्वयं तदप्रतिज्ञाने च प्रतिषेधो निराश्रयः स्यात् । तन्नानित्यता शब्दे नित्यत्वप्रत्यवस्थितेनिराकर्तुं शक्येति ।१० "प्रयत्नानेककार्यत्वात्कार्यसमा जातिः।" [न्यायसू० ५।१॥३७] यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वात्' इत्युक्ते परःप्रत्यवतिष्ठते-प्रयत्नानन्तरं घटादीनां प्रागऽसतामात्मलाभोपि प्रतीतः, आवारकापनयनात् प्राक्सतामेवाभिव्यक्तिश्च । तत्कथमतः शब्दस्यानित्यतेति ? दूषणाभासता चास्या प्रकृतसाधनाप्रतिवन्धित्वादेव । शब्दस्य हि प्रागसतः स्वरूपलाअलक्षणं जन्मैव प्रयत्नानन्तरीयकत्वमुपपद्यते प्रागनुपलब्धिनिमिसालावेप्यनुपलब्धितः सत्त्वासम्भवादिति। तदेतद्योगकल्पितं जातीनां सामान्यविशेषलक्षणप्रणयनमयुक्त-२० मेव साधनाभासेपि साधादिना प्रत्यवस्थानस्य जातित्वप्रसङ्गात् । तथेष्टत्वान्न दोषः, तथा हि-असाधौ साधने प्रयुक्ते यो जातीनां प्रयोगः सोनभिज्ञतया वा साधनदोषस्य स्यात् , तद्दोषप्रदर्शनार्थ वा प्रसङ्गव्याजेन; इत्यप्यसमीचीनम्; साधनाभासप्रयोगे जातिप्रयोगस्य उद्योतकरेण निराकरणात् । २५ जातिवादी च साधनाभासमेतदिति प्रतिपद्यते वा,न वा? यदि प्रतिपद्यते; तर्हि य एवार्य साधनाभासत्वं हेतुदोषोऽनेन प्रतिपन्नः स एव वक्तव्यो न जातिः, प्रयोजनाभावात् । प्रसङ्गव्याजेन दोष. प्रदर्शनार्थ सा; इत्यप्ययुक्तम् । अनर्थसंशयात् । यदि हि परप्रयु १ पक्षस्थानित्यत्वधर्मस्य नित्यत्वापादनेन तृतीयासः प्रत्यवस्थानं नित्यसमा जातिः । २ अङ्गीकारे। ३ उत्पत्तेः। ४ प्रयत्नेन । ५ उच्चारणात् । ६ शब्दस्यानुपलब्धेनिमित्तमावारकम् । ७ दूषणस्य । ८ मम योगस्य । ९ पूर्वपक्षवादिना । १० जातिवादिना प्रयुक्तः। ११ पूर्वपक्षवादिना प्रयुक्त। १२ प्रतिवादिप्रयुक्तस्य । १३ नैयायिकाचार्येण । १४ वादिनः। १५ अनर्धः दोषः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy