________________
६५८
प्रमेयकमलमार्तण्डे५. तदाआसपरि०
साध्याभावेऽभावनियमव्यवस्थित्तेः । न चानित्यत्वे प्रयत्नानन्तरीयकत्वमेव गमकम् ; उत्पत्तिमत्त्वादेरपि तद्गमकत्वात् ।
"तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेरनुपलब्धिसमा जातिः।" [न्यायसू०५।१२९] 'यथा अविद्यमानः शब्द ५ उच्चारणात्पूर्वमनुपलब्धेरुत्पत्तेः पूर्व घटादिवत् । न खलूच्चारणा
प्राग्विद्यमानस्य शब्दस्यानुपलब्धिः तदावरणानुपलब्धेः, उत्पत्तेः प्राग्घटादेरिव । यस्य तु दर्शनात् प्राग्विद्यमानस्यानुपलब्धिस्तस्य नावरणानुपलब्धिः, यथा भूम्याद्यावृतस्योदकादेः, आवरणानुप
लब्धिश्च श्रवणात्प्राक् शब्दस्य ।' इत्युक्ते परः प्राह-तस्य शब्द१० स्यानुपलब्धेरप्यनुपलस्भादभावसिद्धौ सत्यां शब्दस्याभावविपरीतत्वेन भावस्योपपत्तेरनुपलब्धिसमा जातिः।
अस्याश्च दूषणाभासत्वम् ; अनुपलब्धेरनुपलब्धिखभावतयोपलब्धिविषयत्वात् । यथैव ह्युपलब्धिरुपलब्धेविषयस्तथानुप
लन्धिरपि । कथमन्यथा 'अस्ति मे घटोपलब्धिः तद्नुपलब्धिस्तु १५ नास्ति' इति संवेदनमुपपद्यते? ___ "साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमा जातिः।" [न्यायसू०५।११३३ ] यथा 'अनित्यः शब्दः कृतकत्वाद् घटवत्' इत्युक्ते परः प्रत्यवतिष्ठते-यदि शब्दस्य घटेन साधर्म्य कृतकत्वादिनाऽनित्यत्वं साधयेत्, तदा सर्व वस्त्वनित्यं प्रस२० ज्येत घटादिनाऽनित्येनं सत्त्वेन कृत्वा साधर्म्यमात्रस्य सर्वत्राऽविशेषात्।
तस्याश्च दृषणाभासत्वम्, प्रतिषेधकस्याप्यसिद्धिप्रसङ्गात् । पक्षो हि प्रतिषेध्यःप्रतिषेधकस्तु प्रतिपक्षः। तयोश्च साधर्म्य प्रति
शादियोगः तेन विना तयोरसम्भवात् । ततः प्रतिज्ञादियोगाद्यथा २५ पक्षस्यासिद्धिस्तथा प्रतिपक्षस्यापि । अथ सत्यपि साँधम्य पक्षप्रतिपक्षयोः पक्षस्यैवासिद्धिर्न प्रतिपक्षस्य; तर्हि घटेन साध्याकृतकत्वाच्छब्दस्याऽनित्यतास्तु, सकलार्थानां त्वनित्यना तेन साधर्म्यमात्रात् मा भूदिति।
१ तस्य-शब्दस्य । २ सन्दिग्धानकान्तिकत्वपरिहारमाह । ३ ब्यतिरेकनिदर्शनमाह । ४ जातिवादी। ५ अनुपलव्धेरप्यभावसिद्धिः कथमित्युक्ते सत्याह । ६ द्वितीयानुमानमाश्रित्य जाति वदति । ७ कुतः। ८ अनुपलब्धेरुपलब्धिविषयत्वं यदि न स्यात् । ९ एकस्यानित्यत्वे सर्वस्यानित्यत्वापादनमनित्यसमा जातिः। १० धर्मेण । ११ पूर्वोक्ताया जातेः । १२ अन्यथा । १३ प्रतिपक्षस्य । १४ कथम् । १५ प्रतिशादियोगेन।