SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ सू० ६१७३] जय-पराजयव्यवस्था वनसामर्थ्यम् ; तर्हि जातिप्रयोगेप्युत्तराभासवादिनः सम्यगुत्तराभिधानासामर्थ्य मेवावसीयेत न परोद्भावितजातिपरिहारसामर्थ्यम् । ननु सदुत्तराभिधानासामर्थ्यादेव तत्परिहारासाम र्थ्यनिश्चयः, तत्सद्धावे हि न सदुत्तराभिधानासामर्थ्य स्यात् : एवं तर्हि सत्साधनाभिधानसामर्थ्यादेवास्य परोपन्यस्तजात्युद्भाव-५ नशक्त्यवसायोस्तु, तद्भावे तदभिधानसामर्थ्यायोगात् । सत्साधनाभिधानसमर्थस्यापि कदाचिदऽलडुत्तरेण व्यामोहसम्भवान्न तदुद्भावनसार्थ्यमवश्यंभावीति चेत् तर्हि जातिवादिनः सदुत्तराभिधानासमर्थस्यापि स्वोपन्यस्तपरोद्भावितोत्तराभासपरिहारसामर्थ्यसम्भवात्पुनरुपन्यासश्चतुर्थोऽपेक्षणीयः स्यात् । साधन-१० वादिनोपि तत्परिहारनिराकरणाय पञ्चमः । पुनर्जातिवादिनस्तनिराकरणयोग्यताववोधार्थ षष्ठ इत्यनवस्थानं स्यात् । ननु नायं दोषः पर्यनुयोज्योपेक्षणस्य प्रतिवादिनाऽनुद्भावनात्, 'कस्य पराजयः' इत्यनुयुक्ताः प्राश्निका एव हि पूर्वपक्षवादिनः पर्यनुयोज्योपेक्षणमुद्भावयन्ति । न खलु निग्रहप्राप्तो जातिवादी स्खं १५ कौपीनं विवृणुयात् । तर्हि जात्यादिप्रयोगमपि त एवोद्भावयन्तु न पुनः पूर्वपक्षवादी । पर्यनुयोज्योपेक्षणं ते पूर्वपक्षवादिन एवोद्भावयन्ति न जात्यादिवादिनो जात्यादिप्रयोगमिति महामाध्यस्थ्यं तेषां येनैकस्य दोषमुद्भावयन्ति नापरत्येति । ततः पूर्वपशवादिनं तूष्णीभावादिकमारचयन्तमुत्तराप्रतिपत्तिमुद्भावयन्नेव २० जातिवादी निगृह्णातीत्यभ्युपगन्तव्यम् । तत्रापि कथम्भूतेनोत्तराप्रतिपत्त्युद्भावनेनासौ विजयते ? किं खोपन्यस्तजात्यपरिज्ञानोद्भावनरूपेण, परोद्भावितजायन्तरनिराकरणलक्षणेन चो(वा, उत्तरप्रतिपत्तिमात्रोद्भावनाऽऽकारेण वा? तंत्राद्यविकल्पे 'अपकर्षसमाऽन्या वा जातिर्मया प्रयुक्तापि२५ न ज्ञातानेन' इत्येवं खोपन्यस्तजात्यपरिज्ञानमुद्भावयन्नात्मनः सम्यगुत्तराप्रतिपत्तिमसम्बद्धाभिधायित्वं परकीयसाधनसस्यक्त्वं चोद्भावयतीति जात्युपन्यासवैयर्थ्यम् , अवश्यम्भावित्वात्प १ प्राश्निकानाम् । २ आद्यपक्षवादिनः। ३ ततश्च तृतीया जातिरुद्भावनीयेत्यर्थः। ४ पृष्टाः। ५ जातिवाद्यहं जातिमुक्तवान् त्वया वादिना न सम्भावितेति न प्रतिपादयतीति भावः। ६ गुह्येन्द्रियम् । ७ प्राश्निकाः । ८ नोद्भावयन्तीति संबन्धः । ९ उपहासवचनमिदम्। १० प्राश्निकानाम् । ११ प्राश्निकानां माध्यस्थ्याभावो यतः । १२ जानन् । १३ परेण। १४ पक्षे। १५ वादिनम् । १६ पूर्वपक्षवादिनः । १७ परः वादी । १८ जात्यन्तरं-जातिविशेषः । १९ त्रिषु. विकल्पेषु मध्ये । २० उत्कर्षसमा वा जातिः। २१ पूर्वपक्षवादिना। २२ जातिवादी । प्र०क० मा० ५६
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy