SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ सू०६।७३] जय-पराजयव्यवस्था हेतुगुणाश्रयमाकाशं निष्क्रियं दृष्टमिति । कः पुनराकाशस्य क्रियाहेतुगुणः? संयोगो वायुना सह ! कालत्रयेप्यसम्भवादाकारो क्रियायाः। न क्रियाहेतुर्वायुना संयोगः; इत्यप्यसारम् । वायुसंयोगेन वनस्पती शियाकारणेन समानधर्मत्वादाकाशे वायुसंयोगय । यत्वसौ तत्र क्रियां न करोति तन्नाकारणत्वात् ,५ किन्तु परममहापरिमाणेन मातिवद्धत्वात् । अथ क्रियाकारणवायुवनस्पतियोगसदृशो वायवाकाशसंयोग न पुनः क्रियाकारणम् ; न कश्चिदप्ये हेतुरलैकान्तिकः स्यात्-अनित्या शब्दोऽमूतत्वात्सुखादिवत्' इत्यत्राप्यमूर्त्तत्वं हेतुः शन्देऽन्योन्यश्चाकाशे तत्सदृश इति कथमस्याकाशेनानैकान्तिकत्वम् ? सकलानुमानो-१० च्छेदश्च, अनुमानस्य सादृश्यादेव प्रवर्त्तनात् । न खलु ये धूलधर्माः कचिद्भुमे दृष्टास्त एवान्यत्र दृश्यन्ते तत्सदृशानामेव दर्शनात् । ततोनेन कस्यचिद्धेतोरनैकान्तिकत्वं वचिदनुमानात्प्रवृत्ति वेच्छता तद्धर्मसदृशस्तद्धर्मोनुमन्तव्य इति क्रियाकारणवायुवनस्पतिसंयोगसदृशो वाय्वाकाशसंयोगोपि क्रियाकारणमेव । तथा १५ च प्रतिदृष्टान्तेनाकाशेन प्रत्यवस्थानं प्रतिदृष्टान्तसमः प्रतिषेधः। स चायुक्तः अस्य दूषणामालत्वात् । तथाहि-यदि तावदयं ब्रूते-'यथावं त्वदीयो दृष्टान्तो लोष्टादिस्तथा मदीयोप्याकाशादिः' इति, तदा व्याघातः-एकस्य हि दृष्टान्तत्वेन्यस्यादृष्टान्तत्वमेव, उभयोस्तु दृष्टान्तत्वविरोधः । अथैवं ब्रूते-'यथायं मदीयो न २० दृष्टान्तस्तथा त्वदीयोपि' इति । तथापि व्याघातः-प्रतिदृष्टान्तस्य ह्यदृष्टान्तत्वे दृष्टान्तस्यादृष्टान्तत्वव्याघातः, प्रतिदृष्टान्ताभावे तस्य दृष्टान्तत्वोपपत्तेः । दृष्टान्तस्य वाऽदृष्टान्तत्वे प्रतिदृष्टान्तस्यादृष्टान्तत्वव्याघातः, दृष्टान्ताभावे तस्य तत्त्वोपपत्तेरिति । "प्रागुत्पत्तेः कारणाभावाद्या प्रत्यवस्थितिः सानुत्पत्तिसमा २५ जातिः" [न्यायसू० ५।१११२] तद्यथा-'विनश्वरः शब्दः प्रयत्ना. नन्तरीयकत्वात्कटकादिवत्' इत्युक्ते परः प्राह-'प्रागुत्पत्तेरनुत्पन्ने शब्दे विनश्वरत्वस्य यत्कारणं प्रयत्नानन्तरीयकत्वं तन्नास्ति ततोयमविनश्वरः, शाश्वतस्य च शब्दस्य न प्रयत्नानन्तरं जन्म इति । सेयमनुत्पत्त्या प्रत्यवस्था दूषणाभासोन्यायातिलचनात्। उत्पन्न-३० स्यैव हि शब्दस्य धर्मिणः प्रयत्नानन्तरीयकत्वमुत्पत्तिधर्मकत्वं वा १ तद्वदात्मापि निष्क्रियो भवत्विति । २ तार्णत्वादयः। ३ महानसादौ । ४ वादिना। ५ पर्वतादौ । ६ जातिवादी। ७ दृष्यन्तः । ८ व्याधातं भावयति । ९ शब्दस्य । १० कारणं ताल्वादि । ११ प्रतिकूलता । १२ लिङ्गम् । १३ न्यायातिलहनमेव भावयति।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy