________________
अमेधकामालभालण्डै
५. तदापासपरि०
भवति नाजुत्पन्नाल्या भागुत्पत्तेः शब्दस्याऽलरने किमाश्रयोय. पालम्मान हायमनुत्पनोऽसन्नेव 'शब्दः' इति प्रयत्नानन्तरी यकः' इति अनित्यः' इति वा व्यपदेष्टुं शक्यः सत्वे तु सिद्धमेन प्रयत्नानन्तरीयकत्वकारणं नश्वरत्वे साध्ये, अतः कथमस्य ५प्रतिषेध इति?
"सामान्यघटयोरैन्द्रियिकत्वे समाने नित्यानित्यसाधर्म्यात्संशयसमा जातिः।" [ न्यायसू० ५।०१४ ] यथा 'अनित्यः शब्दः प्रयत्नानन्तरीयकत्वाद् घटवत्' इत्युक्ते परः सदूषणमपश्यन्
संशयेन प्रत्यवतिष्ठते-प्रयत्नानन्तरीयकेपि शब्दे सामान्येन साध१.hमैन्द्रिायिकत्वं नित्येनास्ति घटेन चानित्येनास्ति, संशयः शब्दे नित्यत्वानित्यत्वधर्मयोरिति ।
अत्याच दूषणाभासत्वम्-शब्दाऽनित्यत्वाऽप्रतिबन्धित्वात् । यथैव हि पुरुषे शिरःसंयमनादिना विशेषेण निश्चिते सति न स्थाणुपुरुषसाधादूर्ध्वत्वात् संशयस्तथा प्रयत्नानन्तरीयकत्वेन १५ विशेषेणानित्ये शब्दे निश्चिते न घटसामान्यसाधादैन्द्रियकत्वात् संशयो युक्त इति ।
"उभयसाधर्म्यात्प्रक्रियासिद्धेः प्रकरणसमा जातिः।" [ न्यायसू०५।१।१६] 'यथा अनित्यः शब्दः प्रतानन्तरीयकत्वाद् घटवत्' इत्यनित्यसाधर्म्यात्प्रयत्नानन्तरीयकत्वाच्छब्दस्यानित्यतां कश्चि२० साधयति । अपरः पुनर्गोत्वादिना सामान्येन सँघियत्तस्य नित्यताम् इति, अतः पक्षे विरक्षे च प्रक्रिया समानेति ।
ईदृश्यं च प्रक्रियाऽनतिवृत्त्या प्रत्यवस्थानमयुक्तम् ; विरोधात् । प्रतिपक्षप्रक्रियासिद्धौ हि प्रतिषेधो विरुध्यते । प्रतिषेधोपपत्तौ तु प्रतिपक्षप्रक्रियासिद्धिाहन्यते इति । २५ "त्रैकाल्यासिद्धेहेतोरहेतुसमा जातिः।" [न्यायसू० ५।१।१८]
यथा सत्साधने दूषणमपश्यन्परः प्राह-'साध्यात्पूर्व वा साधनम्, उत्तरं वा, सहभावि वा स्यात् ? न तावत्पूर्वम् । असत्यर्थे तस्य साधनत्वानुपपत्तेः । नाप्युत्तरम् । असति साधने पूर्व साध्यस्य साध्यखरूपत्वासम्भवात् । नापि सहभावि; खतन्त्रतया प्रसिद्धयोः
. १ भूयोदर्शनानिश्चितव्याप्तेः साधर्म्यवैधयोपाधिप्रतिकूलतर्कादिना पक्षे सन्देहोपादानं संशयसमा जातिः । २ शब्दवलक्षणेन । ३ साधर्म्यम् । ४ केशबन्धादिना । ५ अनित्यनियाभ्यां घटसामान्याभ्यां। ६ प्रत्यनुमानेन प्रत्यवस्थानं प्रकरणसमा वाशिः। ७ ऐन्दियिकत्वात् । ८ प्रक्रिया अनुमानरचना। ९ साध्यस प्रागेष सिद्धत्वात्किमनेन हेतुनेति भावः ।