SearchBrowseAboutContactDonate
Page Preview
Page 816
Loading...
Download File
Download File
Page Text
________________ ६५४ प्रमेयकमलमार्तण्डे [५. तदाभासपरि० हेत्वाद्यवयवयोगी धर्मः साध्या, तमेव दृष्टान्ते प्रसञ्जयतः साध्यसमा जातिः। यथात्रैव साधने प्रयुक्ते परः प्राह-यदि यथा लोष्टस्तथात्मा तदा यथात्मायं तथा लोष्टः स्यात् । 'लौक्रियः' इति साध्यश्चात्मा लोष्टोपि तथा साध्योस्तु । अथ लोष्टः क्रियावान ५साध्या; तदात्मापि क्रियावान्साध्यो मा भूद्विशेषो वा वाच्यं इति । दूषणाभासता चासाम्-सत्साधने दृष्टान्तादिसामर्थ्ययुक्ते सति साध्यदृष्टान्तयोधर्मविकल्पमात्रात्प्रतिषेधस्य कर्तुमशक्यत्वात् । यत्र हि लौकिकेतरयोवुद्धिसाम्यं तस्य दृष्टान्तत्वान्न साध्यत्वमिति । सम्यक्साधने प्रयुक्त प्राप्त्या यत्प्रत्यवस्थानं सा प्राप्तिसमा १० जातिः । अप्रात्या तु प्रत्यवस्थानमप्राप्तिसमेति । तद्यथा-हेतुः साध्यं प्राप्य, अप्राप्य वा साधयेत् ? 'प्राप्य चेत् ; हेतुसाध्ययोः प्रायोर्युगपत्सस्सवात्कथमेकस्य हेतुतान्यस्य साध्यता युज्येत्' इति प्रत्यवस्थान प्राप्तिसमा जातिः। अथ 'अप्राप्य हेतुः साध्य साधयेत्; तर्हि सर्वसाध्यमसौ साधयेत् । न चाप्राप्तः प्रदीपः १५ पदार्थानां प्रकाशको दृष्टः' इति प्रत्यवस्थानमप्राप्तिसमेति । ताविमौ दूषणाभासौ प्राप्तस्यापि धूमादेरन्यादिसाधकत्वोपलम्भात्, कृत्तिकोदयादेस्त्वप्राप्तस्य शकटोदयादौ गमकत्वप्रतीतेरिति । दृष्टान्तस्यापि साध्यविशिष्टतया प्रतिपत्तौ साधनं वक्तव्यमिति २० प्रसङ्गेन प्रत्यवस्थानं प्रसङ्गसमा जातिः । यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-'क्रियाहेतुगुणयोगाक्रियावाँल्लोष्टः' इति हेतुनॊक्तः। न च हेतुमन्तरेण साध्यसिद्धिः। अस्याश्च दूषणाभासत्वम्-यथैव हि रूपं दिखूणां प्रदीपोपादानं प्रतीयते न पुनः स्वयं प्रकाशमानं प्रदीपं दिखूणाम् । २५ तथा साध्यस्यात्मनः क्रियावत्त्वस्य प्रसिद्ध्यर्थे लोष्टस्य दृष्टान्तस्य ग्रहणमभिप्रेतं न पुनस्तस्यैव सिद्ध्यर्थ साधनान्तरस्योपादानम् , वादिप्रतिवादिनोरविवादविषयस्य दृष्टान्तस्य दृष्टान्तत्वोपपत्तेस्तत्र साधनान्तरस्याफलत्वादिति। प्रतिदृष्टान्तरूपेण प्रत्यवस्थानं प्रतिदृष्टान्तसमा जातिः। यथा३० त्रैव साधने प्रयुक्ते प्रतिदृष्टान्तेन परः प्रत्यवतिष्ठते-क्रिया १ आदिना प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनानि । २ उभयोरपि दृष्टान्तसाध्ययोः साध्यत्वापादनेन प्रत्यवस्थानं साध्यसमा जातिः। ३ प्राकनवाक्यं विवृणोति । ४ सक्रिय इति । ५ अस्ति चेतर्हि । ६ त्वया वादिना । ७ उत्कर्षसमादिषण्णाम् । ८ विकल्प आरोपः । ९ विशेषाभावात् । १० हेतुमन्तरेण साध्यसिद्धिर्भविष्यतीत्युक्त सत्याह । ११ कथम् । तथा हि।. .
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy