________________
खू० ६७३ जय-पराजयव्यवस्था
६५३ निस्कियो विभुत्वात् , यत्पुनः सक्रियं तन्न विभु यथा लोष्टादि, विमुश्वात्मा, तस्मानिष्क्रियः' इत्युक्तं परः प्राह-निष्क्रियत्वे सत्यात्मनः क्रियाहेतुगुणाश्रयत्वं न स्यादाकाशवत्, अस्ति चैतत्, ततो नायं निष्क्रिय इति । साधयेण तु प्रत्यवस्थानम्'क्रियावानेवात्मा क्रियाहेतुगुणाश्रयत्वात् , य ईदृशः स ईदृशो५ दृष्टः यथा लोष्टादिः, तथा चात्मा, तलाक्रियावानेव' इति ।
उत्कर्षसमादीनां लक्षणम्-"लाध्यधान्तबोधर्मविकल्पादुभयसाध्यत्वाचोत्कर्षापकर्षवार्य विकल्पसाध्यसमः" न्यायसू० ५१०४] इति ।
तत्रोत्कर्षसमायास्तावल्लक्षणम्-दृष्टान्तधर्म साध्ये समाल-१० यतो मतोत्कर्षसमा जातिः । तद्यथा-'क्रियावानात्मा क्रियाहेतुगुणाश्रयत्वाल्लोष्टवत्' इत्युक्ते परः प्रत्यवतिष्ठते-यदि क्रियाहेतुगुणाश्रयो जीवो लोष्टवत्क्रियावाँस्तदा तद्वदेव स्पर्शवान्भवेत्। अथ न स्पर्शवांस्तर्हि क्रियावानपि न स्यादविशेषात् ।
यस्तु तत्रैव क्रियावजीवसाधने प्रयुक्ते साध्ये साध्यधर्मिणि १५ धर्मस्यामावं दृष्टान्तात्समासञ्जयन्वक्ति सोऽपकर्यसमां जाति वक्ति । यथा लोष्टः क्रियाश्रयोऽसर्वगतो दृष्टस्तद्वदात्माप्यसर्वगतोस्तु, विपर्यये विशेषो वा वाच्य इति । __ ख्यापनीयो वर्योऽख्यापनीयोऽवर्ण्यः । तेन वयेनावण्येन च समा जातिः। तद्यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-यद्या-२० त्मा क्रियावान् वर्ण्यः साध्यस्तदा लोष्टादिरपि साँध्योस्तु । अथ लोष्टादिवर्ण्यस्तात्माप्यवोस्तु विशेषाभावादिति ।
विकल्पो विशेषः, लोध्यधर्मस्य विकल्पं धर्मान्तर विकल्पात्प्रसञ्जयतो विकल्पसमा जातिः । यथात्रैव साधने प्रयुक्ते परः प्रत्यवतिष्ठते-क्रियाहेतुगुणोपेतं किञ्चिहरु दृश्यते यथा लोष्टादि,२५ किञ्चित्तु लघूपलभ्यते यथा वायुः, तथा क्रियाहेतुगुणोपेतमपि किञ्चिक्रियाश्रयं युज्येत यथा लोष्टादि, किञ्चित्तु निष्क्रिय यथात्मेति।
१ वादिना । २ आत्मा । ३ सामान्यलक्षणम् । ४ साध्यः-पक्षः। ५ विकल्पः= समारोपः। ६ समारोपयतः । ७ क्रियाहेतुगुणाश्रयत्वस्य । ८ पक्षे । ९ सर्वगतकलक्षणस्य । १० सर्वगतत्वे । ११ वादिना त्वया। १२ साध्यधार्मिधर्मः। १३ पक्षः। १४ दृष्टान्तोपि । १५ पक्षोस्तु । १६ क्रियाश्रयत्वस्य । १७ भेदम् । १८ धर्मान्तरविकल्पेन प्रत्यवस्थान विकल्पसमा जातिः। १९ प्रतिवादिनः।