SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ सू० ६६२-७३] जय-पराजयव्यवस्था ६४५ प्रमाणफलयोस्तद्वयवहारान्यथानुपपत्तरिति प्रेक्षादक्षः प्रतिपतव्यम्। अस्तु तर्हि सर्वथा तयोर्भेद इत्याशङ्कापनोदार्थमाहभेदे त्वात्मान्तरवत्तदनुपपत्तिः (तः) ७१ ॥ समवायेऽतिप्रसङ्गः ।। ७२ ॥ इत्यप्युक्तं तत्रैव। अथेदानी प्रतिपन्नप्रमाणतदाभासस्वरूपाणां विनेयानां प्रमाणतदाभासावित्यादिना फलमादर्शयतिप्रमाण-तदाभासौ दुष्टतयोद्भावितौ परिहृता-परिहृतदोषौ वादिनः साधन-तदाभासौ प्रतिवा- १० दिनो दूषण-भूषणे च ॥ ७३ ॥ प्रतिपादितस्वरूपी हि प्रमाणतदाभासौ यथावत्प्रतिपन्नाप्रैतिपन्नखरूपौ जयेतरव्यवस्थाया निवन्धनं भवतः । तथाहि-चतुरङ्गवादमुररीकृत्य विज्ञातप्रमाणतदाभासस्वरूपेण वादिना सस्यक्प्रमाणे स्वपक्षसाधनायोपन्यस्ते अविज्ञाततत्स्वरूपेण तु तदा-१५ भासे । प्रतिवादिना वाऽनिश्चिततत्स्वरूपेण दुष्टतया सम्यक्प्रमाणेपि तदाभासतोद्भाविता । निश्चिततत्स्वरूपेण तु तदाभासे तदाभासतोद्भाविता । एवं तौ प्रमाणतदाभासौ दुष्टतयोद्भावितो परिहृतापरिहृतदोषौ वादिनः संधिनतदाभासौ प्रतिवादिनो दूषणभूषणे च भवतः। ननु चतुरङ्गवादमुररीकृत्येत्याद्ययुक्तमुक्तम् । वादस्याविजिगीपुविषयत्वेन चतुरङ्गत्वासम्भवात् । न खलु वादो विजिगीषतोर्वर्तते तत्वाध्यवसायसंरक्षणार्थरहितत्वात् । यस्तु विजिगीषतोसौ तथा सिद्धः यथा जल्पो वितण्डा च, तथा च वादः, १ वास्तवभेदाभावे । २ वादिना प्रतिपन्नाप्रतिपन्नस्वरूपौ प्रतिवादिनापि तथेत्यर्थः । ३ सभ्यसभापतिवादिप्रतिवादीति चत्वार्यङ्गानि यस्य स तथोक्तः। ४ अन्यवादिना । ५ उपन्यस्ते। ६ अन्यप्रतिवादिना । ७ प्रतिवादिना। ८ वादिनेति शेषः। ९ स्वपक्षस्य । १. यौगः प्राह । ११ जैनैः। १२ वीतरागकथा वादो योगमते यतः। १३ जयेच्छाऽभावात्तेषां सभ्यादीनां प्रयोजनाभावो वादे इति भावः । १४ जल्पो वितण्डा च विजिगीषतोरतो न वादरूपः, व्यतिरेकी दृष्टान्तः ।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy