________________
प्रमेयकमलमार्तण्डे ५. तदाभासपरित तस्मान्न विजिगीषतोरिति । न हि वादस्तत्त्वाध्यवसायसंग णार्थो भवति जल्पवितण्डयोरेव तत्त्वात् । तदुक्तम्---
"तत्त्वाध्यवसायसंरक्षणार्थ जल्पवितण्डे बीजप्ररोहसंरक्षणा कंटकशाखावरणवत्" [न्यायसू० ४।२।५०] इति । तदप्यसमीची ५नम् ; वादस्याविजिगीषुविषयत्वासिद्धेः। तथाहि-वादो नाविजि. गीषुविषयो निग्रहस्थानवत्त्वात् जल्पवितण्डावत् । न चास्य निग्रह स्थानवत्त्वमसिद्धम् : 'सिद्धान्ताविरुद्धः' इत्यनेनापसिद्धान्तः, पञ्चा वयवोपपन्नः' इत्यत्र पञ्चग्रहणात् न्यूनाधिके, अवयवोपपन्नग्रहणा.
हेत्वाभासपञ्चकं चेत्यष्टनिग्रहस्थानानां वादे नियमप्रतिपादनात्। १० ननु वादे सतामप्येषां निग्रहवुद्ध्योद्भावनाभावान्न विजिगी.
पास्ति । तदुक्तम्-"तर्कशब्देन भूतपूर्वगतिन्यायेन वीतरागकथात्वज्ञापनादुद्भावन नियमोपलभ्यते" [ ] तेन सिद्धान्ता. विरुद्धः पञ्चावयवोपपन्न इति चोत्तरपदयोः समस्त निग्रहः
स्थानाधुपलक्षणार्थत्वाद्वादेऽप्रमाणवुद्ध्या परेण छलजातिनिग्रहः १५ स्थानानि प्रयुक्तानि न निग्रहवुझ्योद्भाव्यन्ते किन्तु निवारणवुझ्या।
तत्त्वज्ञानायावयोः प्रवृत्तिन च साधनाभासो दूषणाभासो वा तद्धेतुः। अतो न तत्प्रयोगो युक्त इति । तदप्यसाम्प्रतम् ; जल्प. वितण्डयोरपि तथोद्भावननियमप्रसङ्गात् । तयोस्तत्त्वाध्यवसाय
संरक्षणाय स्वयमभ्युपगमात् । तस्य च छलजातिनिग्रहस्थानः । २० कर्तुमशक्यत्वात् । परस्य तूष्णीभावार्थ जल्पवितण्डयोश्छलाधु
१ वादो न विजिगीषतोर्वर्ततां तत्त्वाध्यवसायसंरक्षणार्थश्च भवत्विति सन्दिग्धानकान्तिकत्वे सत्याह । २ स्तः। ३ प्रमाणतर्क( विचार )साधनो( स्वपक्षस्य )पालम्भः (परपक्षस्य दूषणं) सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहो वाद इति परकीयं वादलक्षणसूत्रम् । जैनमते तु समर्थ( वादिप्रतिवादिनोर्जयपराजयार्थ )वचनं वाद इति वादलक्षणम् । ४ प्रतिज्ञोपपन्न इत्यनेनाश्रयासिद्धहेत्वाभासग्रहणं, हेतूपपन्न इत्यनेन स्वरूपासिद्धहेत्वाभासस्य, अन्वयदृष्टान्तोपपन्न इत्यनेन विरुद्धहेत्वाभासस्य व्यतिरेकदृष्टान्तोपपन्न इत्यनेनानैकान्तिकहेत्वाभासस्योपनयोपपन्न इत्यनेन कालात्ययापदिष्टस्य, निगमोपपन्न इत्यनेन सत्प्रतिपक्षस्य च ग्रहणम् । ५ अनेनात्र भवितव्यं नान्येनेति सम्भावनाप्रत्ययस्तों विचार इति यावत्, वादलक्षणे गृहीतेन । ६ व्याख्यानकाले क्रियमाणे विचारे वीतरागत्वं वादिप्रतिवादिनोस्तथा वादकालेपि तत्स्यात् । कुत एतत् ? वादलक्षणे तर्कशब्दोपादानाद् ज्ञायते। ७ व्याख्यानकाले विचारो वीतरागत्वस्य हेतुस्तथा वादेपीति तात्पर्यम् । ८ अपसिद्धान्तादिकं निग्रहबुध्या नोद्भावनीयमिति। ९ प्रमाणतर्कसाधनोपालम्भ इति प्रथमपदापेक्षयोत्तरपदत्वमनयोः। १. ततश्च छलजात्यादीनां निवारणबुदयोद्भावनमिति भावः, निग्रहस्थानैः प्रतिक वादिनो निराकरणं न तु तत्त्वनिर्णय इति भावः ।