SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डै [५० तदाभासपरित अथेदानीं दृष्टान्ताभासप्रतिपादनार्थ दृष्टान्तेत्याधुपक्रमते । दृष्टान्तो ह्यन्वयव्यतिरेकमेदाद्विधेत्युक्तम् । तद्विपरीतस्तदामा. सोपि तद्भेदाद्विधैव द्रष्टव्यः । तत्र___ दृष्टान्ताभासा अन्वये असिद्धसाध्या५ साधनोभयाः॥४०॥ अपौरुषेयः शब्दोऽमूर्तत्वादिन्द्रियसुख-पर ___माणु-घटवदिति ॥ ४ ॥ इन्द्रियसुखे हि साधनममूर्त्तत्वमस्ति, साध्यं त्वपौरुषेयत्वं नास्ति पौरुषेयत्वात्तस्य । परमाणुषु तु साध्यमपौरुषेयत्वमस्ति, १० साधनं त्वमूर्तत्वं नास्ति मूर्तत्वात्तेषाम् । घटे तूभयमपि पौरुषेयत्वान्मूर्त्तत्वाच्चास्येति । न केवलमेत एवान्वये दृष्टान्ताभासाः किन्तुविपरीतान्वयश्च यदपौरुषेयं तदमूर्त्तम् ॥ ४२ ॥ विपरीतोऽन्वयो व्याप्तिप्रदर्शनं यस्मिन्निति । यथा यदपौरुषेयं १५तदमूर्तमिति । 'यदमूर्त तदपौरुषेयम्' इति हि साध्येन व्याप्ते साधने प्रदर्शनीये कुतश्चिद्व्यामोहात् 'यदपौरुषेयं तदमूर्तम्' इति प्रदर्शयति । न चैवं प्रदर्शनीयम् विद्युदादिनाऽतिप्रसङ्गादिति ॥ ४३ ॥ विद्युद्धनकुसुमादौ ह्यऽपौरुषेयत्वेप्यमूर्तत्वं नास्तीति । २०. व्यतिरेके दृष्टान्ताभासाः व्यतिरेके असिद्धतयतिरेकाः परमा ण्विन्द्रियसुखाकाशवत् ॥ ४४ ॥ असिद्धतद्व्यतिरेकाः-असिद्धस्तेषांसाध्यसाधनोभयानां व्यतिरेको [व्यावृत्तिर्येषु ते तथोक्ताः । यथाऽपौरुषेयः शब्दोऽमू२५तत्वादित्युक्त्वा यन्नापौरुषेयं तन्नामूर्त्त परमाण्विन्द्रियसुखाकाशवदिति व्यतिरेकैमाह । परमाणुभ्यो ह्यमूर्तत्वव्यावृत्तावप्यऽपौरुषेयत्वं न व्यावृत्तमपौरुषेयत्वात्तेषाम् । इन्द्रियसुखे त्वपौरुषेय. त्वव्यावृत्तावप्यमूर्त्तत्वं न व्यावृत्तममूर्त्तत्वात्तस्य । आकाशे तूभयं १ अन्वयव्यतिरेकभेदात् । २ योग्निमान्स धूमवानिति यथा । ३ दृष्टान्तम् । :
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy