________________
सू० ६३४-३९] हेत्वाभासविचारः
एक्षाविपक्षकदेशवृत्तिः सपक्षव्यापको यथा-अद्रव्याणि दिला. लझानांस्यमूर्तत्वात् । अत्रापि प्राक्तनमेव व्याख्यानम् अद्रव्यरूपम गुणादेस्तु सपक्षतेति विशेषः ।
सपक्षविपक्षव्यापकः पक्षकदेशवृत्तिर्यथा-पृथिव्यप्तेजोवावाकाशान्यनित्यान्यगन्धवत्त्वात् । अगन्धयत्त्वं हि पृथिवीतोऽन्यत्र ५ पक्षकदेशे वर्तते न तु पृथिव्याम् , लपक्षे चानित्ये गुगे कर्मणि ब, विपक्षे चात्मादौ नित्ये सर्वत्र वर्तत इति ! अथेदानीमकिञ्चित्करस्वरूपं सिद्ध इत्यादिना व्याच --
सिद्धे प्रत्यक्षादिबाधिते च साध्ये
__हेतुरकिञ्चित्करः ॥ ३५॥ सिद्धे निर्णीते प्रमाणान्तरात्साध्ये प्रत्यक्षादिवाधिते च हेतुर्न किञ्चित्करोतीत्य किञ्चित्करोऽनर्थकः । यथा श्रावणः शब्दः शब्दत्वादिति ॥ ३६ ॥ न ह्यसौ खसाध्यं साधयति, तस्याध्यक्षादेव प्रसिद्धः। नापि साध्यान्तरम् । तत्रावृत्तेरित्यत आह
किञ्चिदकरणात् ॥ ३७॥ प्रत्यक्षादिवाधिते च साध्येऽकिञ्चित्करोसौ
अनुष्णोग्निद्रव्यत्वादित्यादौ यथा
किंचित्कर्तुमशक्यत्वात् ॥ ३८ ॥ कुतोस्याऽकिञ्चित्करत्वमित्याह-किञ्चित्कर्तुमशक्यत्वात्। २० ननु प्रसिद्धः प्रत्यक्षानुमानागमलोकखवचनैश्च वाधितः पक्षाभासः प्रतिपादितः। तद्दोषेणैव चास्य दुष्टत्वात् पृथगकिश्चित्कराभिधानमनर्थकमित्याशङ्ख्य लक्षण एवेत्यादिना प्रतिविधत्तेलक्षण एवासौ दोषो व्युत्पन्नप्रयोगस्य
पक्षदोषेणैव दुष्टत्वात् ॥ ३९ ॥ २५ लक्षणे लक्षणव्युत्पादनशास्त्रे एवासावकिञ्चित्करत्वलक्षणो दोषो विनेयव्युत्पत्त्यर्थ व्युत्पाद्यते, न तु व्युत्पन्नानां प्रयोगेकाले। कुत एतदित्याह-व्युत्पन्नप्रयोगस्य पंक्षदोषेणैव दुष्टत्वात्। १ अबादिषु । २ उपन्यासकाले । ३ पक्षाभासलक्षणेन ।