SearchBrowseAboutContactDonate
Page Preview
Page 800
Loading...
Download File
Download File
Page Text
________________ प्रमेयकमलमार्तण्डे ५. तदाभासपरि० कुतोऽयं शङ्कितवृत्तिरित्याह सर्वज्ञत्वेन वक्तृत्वाविरोधात् ॥ ३४ ॥ एतच्च सर्वशसिद्धिप्रस्ताव प्रपञ्चितमिति नेहोच्यते । पराभ्या. गतश्च पक्षत्रयव्यापकाद्यनैकान्तिकप्रपञ्च एतल्लक्षणलक्षितत्वावि. ५शेषान्नातोऽर्थान्तरम्, सर्वत्र विपक्षस्यैकदेशे सर्वत्र वा विपक्षे वृत्त्या विपक्षेप्यविरुद्धवृत्तित्वलक्षणसम्भवादित्युदाहियते । पक्ष त्रयव्यापको यथा-अनित्यः शब्दः प्रमेयत्वात् । पक्षे सपक्षे विपक्ष चास्य सर्वत्र प्रवृत्तेः पक्षत्रयव्यापकः। सपक्षविपक्षकदेशवृत्तिर्यथा-नित्यः शब्दोऽमूर्त्तत्वात् । अमः १० तत्वं हि पक्षीकृते शब्दे सर्वत्र वर्तते । सपक्षकदेशे चाका शादौ वर्तते, न परमाणुषु । विपक्षैकदेशे च सुखादौ वर्तते न घटादाविति । पक्षसपक्षव्यापको विपक्षैकदेशवृत्तिर्यथा-गौरयं विषाणित्वात् । विषाणित्वं हि पक्षीकृते पिण्डे वर्त्तते, सपक्षे च गोत्व२५ धर्माध्यासिते सर्वत्र व्यक्तिविशेषे, विपक्षस्य चागोरूपस्यैकदेशे महिष्यादौ वर्त्तते न तु मनुष्यादाविति । पक्षविपक्षव्यापकः सपक्षकदेशवृत्तिर्यथा-अगौरयं विषाणित्वात् । अयं हि हेतुः पक्षीकृतेऽगोपिण्डे वर्त्तते । अगोत्वविपक्षे च गोव्यक्तिविशेषे सर्वत्र, सपक्षस्य चागोरूपस्यैकदेशे महि२० ज्यादौ वर्तते न तु मनुष्यादाविति । पक्षत्रयैकदेशवृत्तिर्यथा-अनित्ये वाग्मनसेऽमूर्त्तत्वात् । अमूतत्वं हि पक्षस्यैकदेशे वाचि वर्त्तते न मनसि, सपक्षस्य चैकदेशे सुखादौ न घटादौ, विपक्षस्य चाकाशादेर्नित्यस्यैकदेशे गगनादौ न परमाणुष्विति। २५ पक्षसपक्षैकदेशवृत्तिर्विपक्षव्यापको यथा-द्रव्याणि दिकाल मनांस्यमूर्तत्वात् । अमूर्तत्वं हि पक्षस्यैकदेशे दिक्काले वर्तते न मनसि, सपक्षस्य च द्रव्यरूपस्यैकदेशे आत्मादौ वर्तते न घटादौ, विपक्षे चाद्रव्यरूपे गुणादौ सर्वत्रेति ।. . ., १ सर्वज्ञे वक्तृत्वस्य बाधकप्रमाणाभावात्किं वक्तृत्वं तत्र वर्त्तते न वेति संदेहः । २ परैः नैयायिकादिभिः । ३ पक्षसपक्षविपक्षाः पक्षत्रयम् । ४ विपक्षेप्यविरुद्धतेति । ५ इयत्तावच्छिन्नपरिमाणयोगित्वं मूर्तिमत्वम् । निर्गुणा गुणा इति वचनादियचाव.. च्छिन्त्रपरिमाणाभावः।
SR No.010677
Book TitlePramey Kamal Marttand
Original Sutra AuthorN/A
AuthorMahendramuni
PublisherSatya Bhamabai Pandurang
Publication Year1941
Total Pages921
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size81 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy