________________
झू० ६.२०-२४] हेत्वाभासविचारः
६३३ कत्वलक्षणासिद्धप्रकारान्नार्थान्तरम् , तल्लक्षणभेदाभावात् । दथैद हि स्वरूपासिद्धस्य स्वरूपतोऽसत्त्वादसत्सत्ताकत्वलक्षणमसिद्धत्वं तथा विशेष्यासिद्धादीनामपि विशेष्यत्वादिस्वरूपतोऽसत्त्वात्तल्लक्षणमेवासिद्धत्वम् ।
तत्र विशेष्यासिद्धो यथा-अनित्यः शब्दः सामान्यवत्त्वे सति ५ चाक्षुषत्वात्। विशेषणासिद्धो यथा-अदित्यः शब्दचक्षुपके सात सामान्यवत्त्वात् । आश्रयासिद्धो यथा-अस्ति प्रधानं विश्वपरिणामित्वात् ।
आश्रयैकदेशासिद्धो यथा-नित्याः परमाणुप्रधानात्मेबारा १० अकृतकत्वात्।
व्यर्थविशेष्यासिद्धो यथा-अनित्याः परमाणवः कृतकत्वे सति सामान्यवत्त्वात्।
व्यर्थविशेषणासिद्धो यथा-अनित्याः परमाणवः सामान्यवत्त्वे सति कृतकत्वात् । व्यर्थविशेष्यविशेषणश्चासावसिद्धश्चेति। १५
व्यकिरणासिद्धो यथा-अनित्यः शब्दः पटस्य कृतकत्वात् । व्यधिकरणश्वासावसिद्धश्चेति । ननु शब्दे कृतकत्वमस्ति तत्कथमस्यासिद्धत्वम् ? तयुक्तम् । तस्य हेतुत्वेनाप्रतिपादितत्वात् । न चान्यत्र प्रतिपादितमन्यत्र सिद्धं भवत्यतिप्रंसगात् ।
भागासिद्धो यथा-[अ]नित्यः शब्दः प्रयत्नानन्तरीयकत्वात् । २० व्यधिकरणासिद्धत्वं भागासिद्धत्वं च परप्रक्रियाप्रदर्शनमात्रं न वस्तुतो हेतुदोषः, व्यधिकरणस्यापि 'उदेष्यति शकटं कृत्तिकोदयात्, उपरि वृष्टो देवोऽधः पूरदर्शनात्' इत्यादेर्गमकत्वम
१ परमार्थतः प्रधानं नास्तीति भावः । २ अयमाश्रयस्तत्र प्रधानेश्वरौ न स्त एव । ३ कृतकत्वेनाऽनित्यत्वसिद्धिर्यतः। ४ व्यर्थ विशेषणं यस्य स तथोक्तः, स चासावसिद्धश्चति विग्रहः। ५ विशेष्यं च विशेषणं च विशेष्यविशेषणे, व्यर्थे विशेष्यविशेषणे यस्येति विग्रहः। ६ विभिन्नमधिकरणमस्येति विग्रहः। ७ शब्दस्थस्य कृतकत्वस्य। ८ तथा प्रतिपादितमपि कृतकलं शन्दे सिद्धं भविष्यतीत्युक्ते सत्याह । ९ एकत्र हेतूपन्यासे सर्वत्र साध्यसिद्धिप्रसङ्गात्। १० पक्षकभागे असिद्धः, आश्रयैकदेशासिद्धभागासिद्धयोरयं विशेषः-तत्राश्रयैकदेशोऽसिद्धो हेतुश्च सिद्ध एव, अत्र त्वाश्रयैकदेशे हेतुरसिद्ध आश्रयैकदेशस्तु सिद्ध एव । ११ प्रयत्नानन्तरीयकत्वं पुरुषव्यापारोत्पन्ने शन्दे न तु मेघादिशब्दे इति भावः । १२ परे नैयायिकादयः । १३ जैनानाम् ।